SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 20. योगाष्टकम् (२७) १७९ अथ योगाष्टकम् ॥२७॥ अथ योगाष्टकं वितन्यते । अत्र मिथ्यात्वादिहेतुगतमनोवाक्काययोगत्रयम् । तच्च कर्मवृद्धिहेतुत्वाद् न ग्राह्यम्, किन्तु मोक्षसाधनहेतुभूतं शुद्धोध्यात्मभावनाभावितचेतनावीर्यपरिणामसाधककारकप्रवर्तनरूपं ग्राह्यम् । द्रव्यभावभेदं बाह्याचारविशोधिपूर्वकाभ्यन्तराचारशुद्धिरूपम् । मोक्षण योजनाद्योगः, सर्वोऽप्याचार इष्यते । विशिष्य' स्थानवार्थालम्बनैकाग्र्यगोचरः ॥१॥ मोक्षेणेति- सकलकर्मक्षयो मोक्षः, तेन योजनाद् योगः उच्यते । स च सर्वोऽप्याचारः-जिनशासनोक्तचरणसप्ततिकरणसप्ततिरूपः, मोक्षोपायत्वाद् योग इष्यते । तत्र विशेषेण-(विशिष्य) स्थानं १ वर्णः २ अर्थः ३ आलम्बनम् ४ एकाग्रता ५ इति पञ्चप्रकारो योगः मोक्षोपायहेतुः मतः । रेइत्यनेनानादिपरभावासक्तभवभ्रमणग्रहात् पुद्गलभोगमग्नानां न भवति । अयमभिप्राय:-यतोऽस्माकं मोक्षः साध्योऽस्ति स च गुरुवचनस्मरण-तत्त्वजिज्ञासादियोगेन स्वरूपं निर्मलं निस्सङ्गं परमानन्दमयं संस्मृत्य तत्कथाश्रवणप्रीत्यादिकं करोति । स परम्परया सिद्धियोगी भवति । नहि मरुदेवीवत् सर्वेषामल्पप्रयासात् सिद्धिः । तस्या हि अल्पाशातनादोषकारकत्वेन निष्प्रयासा सिद्धिः । अन्यजीवानां चिराशातनाबद्धगाढकर्मणां तु स्थानादिक्रमेणैव भवति ॥१॥ अथ योगपञ्चके बाह्यान्तरङ्गसाधकत्वमुपदिशतिकर्मयोगद्वयं तत्र, ज्ञानयोगत्रयं विदुः । विरतेष्वेव नियमाद्, बीजमात्रं परेष्वपि ॥२॥ कर्मयोगेति- तत्र मोक्षसाधने योगद्वयम्, कर्मयोगद्वयं क्रियाचरणायोगरूपं त्रयम् अर्थप्रमुखं ज्ञानयोगं विदुः-प्राहुः बुधाः । तत्र विंशतिका . १. शुद्धात्म० A.D., v.1. विना । २. विशेष० S.M. (संशो.) । ३. इत्यनादि० B.2., S.M., V.2. | ४. अनल्पा० A.D., V.1 । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy