________________
१५८
श्रीज्ञानमञ्जरी पुद्गली सकर्मा जन्ममरणी च तेन२ मम कथम् महामोहावतः अयम् ? इत्युद्विग्नः । स्वरूपभासनरमणैकत्वमनोहरे(रम्), सम्यग्दर्शनप्रतिष्ठानम्, क्षान्त्यादिधर्माष्टादशशीलाङ्गसहस्रविचित्रफलकनिबिडघटनाविराजितम्, सम्यग्ज्ञाननिर्यामकान्वितम्, सुसाधुसंसर्गकाथसूत्रनिबिडबन्धनबद्धम्, संवरकीलप्रभग्ननिःशेषाश्रवद्वारम्, सूत्रितसामायिकच्छेदोपस्थापनीयभेदविभिन्नरम्यभूमिकाद्वयम्, तदुपर्युपकल्पितसाधुसमाचारकरणमण्डपम्, समन्ततो गुप्तित्रयप्रस्तरकागुप्तम्, असङ्ख्यशुभाध्यवसायसन्नद्धदुर्योधयोधसहस्रदुरवलोकम्, सर्वतो निवेशितसद्गुरूपदेशवल्लीनिकुरम्बमध्यव्यवस्थापितस्थिरतरातिसरलसद्बोधकूपस्तम्भम्, तद्विन्यस्तप्रकृष्टशुभाध्यवसायसितपटम्, तदग्रसमारूढप्रौढसदुपयोगपञ्जरदौवारिकम्, तदवबद्धाप्रमादनगरनिकरसमायुक्तसर्वाङ्गसम्पूर्णतया प्रवहणं चारित्रयानपात्रम्, तेन चारित्रमहायानपात्रेण सन्तरणोपायं कुर्वन्ति ॥५॥
तैलपात्रधरो यद्वद्, राधावेधोद्यतो यथा । क्रियास्वनन्यचित्तः स्याद्, भवभीतस्तथा मुनिः ॥६॥
तैलपात्रधर इति-यथा तैलपात्रधरः मरणभयभीतः अप्रमत्तः तिष्ठति, तथा मुनिः-स्वगुणघातभयभीतः संसारे अप्रमत्तस्तिष्ठति । यथा केनचित् राज्ञा कश्चन पुरुषो लक्षणोपेतो वधाय अनुज्ञापितः । तदा सभाजनैः विज्ञप्तः स्वामिन् ! क्षमध्वमपराधम्, मा मारय एनम् । तेन सभ्योक्तेन राज्ञा निवेदितम्, यदा महास्थालं तैलपूर्णं सर्वनगरचतुष्पथे अनेकनाटकवाद्यतूर्याकुले तैलबिन्दुमपतन्तं सर्वतो भ्रामयित्वा आनयति तदा न मारयामि । यदि च तैलबिन्दुपात: तदास्य तस्मिन्नवसरे प्राणापहारः करणीयः । इत्युक्तोऽपि स पुरुषस्तत्कार्यं स्वीचकार । तथैवानेकजनसङ्कले मार्गे तैलस्थालं शिरसि धृत्वा सापेक्षयोगः अपतिततैलबिन्दुः समागतः । तद्वन्मुनिः अनेकसुखदुःखव्याकुले भवेऽपि
१. कर्मी V.1. सकर्मी A.D. । २. जन्ममरणा च चेतना S.M. | ३. सत्योक्तेन सर्वप्रतिषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org