________________
भवोद्वेगाष्टकम् (२२ )
१५९
स्वसिद्ध्यर्थी प्रमादरहितः प्रवर्त्तते । पुनः दृष्टान्तयति यथा - स्वयंवरे कन्यापरिणयनार्थी राधावेधोद्यतः स्थिरोपयोगयोगतया लघुलाघविकः स्थिरचित्तो भवति । तथा मुनिः भवभीतः - संसारसंसरणगुणावरणादिमहादुःखाद् भीत: क्रियासु-समितिगुप्तिकरणसप्ततिकरणरूपासु अनन्यचित्तः भवति । न अन्यत्र - अपरभावे चित्तं मनो यस्य स अनन्यचित्तः स्यात् एकाग्रमानसो भवति । उक्तं च—
गाईज्जती सुरसुंदरीहिं, वाइज्जंता वि वीणमाईहिं । तह वि हु समसब्भावा, चिट्ठति मुणी महाभागा ॥ १ ॥ पव्वयसिलायलगया, भावसिएहिं कडुअफासेहिं । उज्जलवेयणपत्ता, समचित्ता हंति निग्गंथा ॥२॥ आमिसलुद्धेण वणे, सीहेण य दाढवक्कसंगहिआ । तहवि हु समाहिपत्ता, संवरजुत्ता मुणिवरिंदा ॥३॥ ६ ॥ कथमीदृग्विपाके निर्भया निर्ग्रन्थाः ? इत्युपदिशन्नाह
?
विषं विषस्य वह्नेश्च वह्निरेव यदौषधम् । तत्सत्यं भवभीतानामुपसर्गेऽपि यन्न भीः ॥७॥
विषं विषस्य इति - यथा कश्चित विषार्त्तः विषस्य औषधं विषमेव करोति । यथा - सर्पदष्टः निम्बादिचर्वणे न बिभेति । अथवा - कश्चित् अग्निदग्धः पुनरपि अग्निदाहपीडावारणाय पुनः अग्नितापमङ्गीकरोति इति । तत्सत्यं यत् - यस्मात्कारणाद् भवभीतानां मुनीनामुपसर्गेऽपि भयं न । कर्मक्षपणोद्यतस्य उपसर्गे २ बहुकर्मक्षपणत्वं मन्वानः साधुः तदुदयं वेदन् न भयवान् भवति । साध्यकार्यस्य निष्पद्यमानत्वाद् इति ॥७॥ स्थैर्यं भवभयादेव, व्यवहारे मुनिर्व्रजेत् । स्वात्मारामसमाधौ तु तदप्यन्तर्निमज्जति ॥८ ॥ ॥ इति भवोद्वेगाष्टकम् ॥२२॥
१. दर्शयन्ना० V.2. । २. उपसर्गैः V. 2.B. 1.2. । ३. वेदयन् V.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org