________________
भवोद्वेगाष्टकम् (२२)
१५७ शोकवियोगादिकष्टपर्वतैः रुद्धमार्गस्य जन्तोः सहगमनमशक्यं भवति । पुनः यत्र भवसमुद्रे कषाया:-क्रोधमानमायालोभरूपाः पातालकलशाः तृष्णा-विषयपिपासा तद्रूपैः महानिलैः-महावातैः भृताः, चित्तं-मनः तस्य सङ्कल्पाः अनेकजलसमूहाः तद्रूपा वेला-जलप्रवाहरूपा तस्याः वृद्धि-वेलागमनं वितन्वते-विस्तारयन्ति । इत्यनेन कषायोदयात् तृष्णावातप्रेरणया विकल्पवेलां वर्द्धयन्ति भवजलधौ अबुधाः इति ॥२॥ यत्र जन्ममरणसमुद्रे स्मर:-कन्दर्पः तद्रूपः३ अन्तर्मध्ये और्वाग्नि:वडवानलः ज्वलति । यत्राग्नौ स्नेहेन्धनः-स्नेहो-रागः स एव इन्धनःज्वलनयोग्यकाष्ठसमूहः अन्यत्र वडवाग्नौ जलेन्धनम् इति । किम्भूतः रागः? यो रागः घोररोगशोकादयो मच्छकच्छपाः तैः संकुल:-व्याप्तः । इत्यनेन रागाग्निप्रज्वलनरोगशोकतापतापितप्राणिगणः एवंरूपो भवाब्धिः । पुनः यत्र सांयात्रिका:-प्रवहणस्थाः लोकाः, अत्रापि व्रतनियमादिपोतस्था जीवाः उत्पातसङ्कटे कष्टे पतन्ति । कैः ? दुष्टा बुद्धिः दुर्बुद्धिः, मत्सरम्-असहनसंयुक्ताहङ्कारः, द्रोहः-कापट्यम्, इत्यादय एव विद्युद्दुर्वातर्जिताः तैः । इत्यनेन दुर्बुद्धिविद्युता मत्सरदुर्वातेन द्रोहगजितेन व्रतादिपोताः प्रवर्त्तमाना, अपि कुमार्गगमने पङ्कस्खलनाद्युत्पातान् लभन्ते । इत्यनेन महाभववारिधौ एते महाव्याघाताः सन्मार्गप्राप्तौ, तस्माद् अतिदारुणात्- महाभयानकाद् नित्योद्विग्नः-सदोदासीनः तस्य सन्तरणोपायं सम्यग्ज्ञान-दर्शन-चारित्ररूपं काङ्क्षति-अभिलषति । इति भवभीतः इव तिष्ठति । चिन्तयति च मम-शुद्धज्ञानमयस्य, परमतत्त्वरमणचारित्रपवित्रस्य, रागद्वेषक्षयसमुत्थपरमशमशीतलस्य, अनन्तानन्दसुखमग्नस्य, सर्वज्ञस्य, परमदक्षस्य, शरीराहारसङ्गमुक्तस्यामूर्तस्य, कथं शरीरादिव्यसनसमूहभारभुग्नताभुग्नस्वशक्तिवत्त्वं युज्यते ? नाहं शरीरी
१. सहगमन० V.1. विना । २-३. एष पाठो नास्ति सर्वप्रतिषु । ४. जलेन्धनः A.D.V.1. । ५. शोकतापित० V.1.A.D. विना । ६. प्रवर्तन्तोऽपि, सर्वप्रतिषु । ७. गमने A.D.V.1 विना । ८. भवालीनभीत:-V.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org