________________
१५६
श्रीज्ञानमञ्जरी किमन्यत् ? सर्वसिद्धिकरं श्रीमद्वीतरागवन्दनादिकं कुर्वन्ति इन्द्रियसुखार्थं च । तप-उपवासादिकष्टानुष्ठानमाजन्मकृतं हारयन्ति निदानदोषेण । न गणयन्ति मोक्षहेतुरूपं जैनशासनदेवादि सुखहेतुरूपम्, व्यामुह्यन्ति ऐश्वर्यादिषु भवाब्धिमत्स्या इव मिथ्यावासिता जीवाः । तेन भवोद्वेग एव करणीयः । यत्रात्मसुखहानिः तस्य कोऽभिलाषः सतामिति? इत्येवोपदिशति
यस्य गम्भीरमध्यस्याऽज्ञानं वज्रमयं तलम् । रुद्धा व्यसनशैलौघैः, पन्थानो यत्र दुर्गमाः ॥१॥ पातालकलशा यत्र, भृताः तृष्णामहानिलैः । कषायाश्चित्तसङ्कल्पवेलावृद्धि वितन्वते ॥२॥ स्मरौर्वाग्निवलत्यन्तयंत्र स्नेहेन्धनः सदा । यो घोररोगशोकादिमच्छकच्छपसंकुलः ॥३॥ दुर्बुद्धिमत्सरद्रोह-विद्युहुर्वातगजितैः । यत्र सांयात्रिका लोकाः, पतन्त्युत्पातसंकटे ॥४॥ ज्ञानी तस्माद्भवाम्भोधेर्नित्योद्विग्नोऽतिदारुणात् । तस्य संतरणोपायम्, सर्वयत्नेन काङ्क्षति ॥५॥
यस्येति १ पातालेति २ स्मरौर्वेति ३ दुर्बुद्धीति ४ ज्ञानीति ५ श्लोकपञ्चकं व्याख्यायते । ज्ञानी तस्य भवसमुद्रस्य सन्तरणोपायंपारगमनोपायं सर्वयत्नेन काङ्क्षति-इच्छति इत्यर्थः । तस्य कस्य ? यस्य गम्भीरं मध्यं यस्य स गम्भीरमध्यस्तस्य अप्राप्तमध्यस्य भवार्णवस्य अज्ञानं जीवाजीवविवेकरहितं तत्त्वबोधशून्यं मिथ्याज्ञानम्, तदेव वज्रमयं तलं दुर्भेदं यत्र भवाम्भोधौ । व्यसनशैलौषैः-कष्टपर्वतसमूहै: रुद्धाः पन्थान:-मार्गाः-सद्गतिगमनप्रचाराः, दुर्गमा-गन्तुमशक्या भवन्ति । इत्यनेन अज्ञानतलातिगम्भीरमध्यस्य संसारपारावारस्य रोग
-
-
१. संसारापारपारा० V.1.A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org