________________
विवेकाष्टकम् (१५)
१०३ अविद्या इति-एव हि-निश्चये, योगिनः-समाधिदशावस्थाप्रवृत्तचक्रयोगिनः, आत्मनि एव-स्वात्मनि एव, परमात्मानम्-उत्कृष्टनिष्पन्नसिद्धात्मानं पश्यन्ति-आत्मनि परमात्मत्वं निर्धारयन्ति । कया? विद्याञ्जनस्पृशा दृशा-विद्या-तत्त्वबुद्धिरूपा अञ्जनस्पृशा दृशा-चक्षुषा, क्व सति ? अविद्या-अज्ञानम् अबोधः-अयथार्थोपयोगो वा तदेव तिमिरं तस्य ध्वंसः तस्मिन्, इत्यनेन मिथ्यातिमिरध्वंसे जाते सम्यग्दृष्टयः आत्मानम् आत्मनि पश्यन्ति । अत एव अनेकोपयोगेन श्रुताभ्यासेन आत्मस्वरूपोपलम्भाय तत्त्वपरीक्षणाय यतितव्यम् । यथार्थमात्मस्वरूपपरिज्ञानं विद्या परमोपकारिणी इति ज्ञेयम् ॥८॥
॥ इति विद्याष्टकम् ॥१४॥
अथ विवेकाष्टकम् ॥१५॥ सा च तत्त्वविद्या विवेकेन-स्वपरविभजनेन स्फुटीभवति, अतः विवेकस्याभ्यासः कर्त्तव्यः । तत्र विवेचनं हेयोपादेयपरीक्षणं विवेकः । नामस्थापनाविवेकौ सुगमौ । द्रव्यविवेकः लौकिकः धनोपार्जनराजनीतिकुलनीतिदक्षस्य भवति । लोकोत्तरस्तु धर्मनीतिदक्षस्य भवति । भावतो विवेकः बाह्यस्वजनधनतनुरागविभजनरूपः बाह्यः । अभ्यन्तरश्च ज्ञानावरणादिद्रव्यकर्माशुद्धचेतनोत्पन्नविभावितादिभावकमैकत्वविभजनरूपः, तत्स्वरूपश्चायमागमे
"पुट्वि रागाइया विभावा सव्वओ विभज्जिज्जा । पच्छा दव्वा कम्मा सव्वविभिन्नो नियो अप्पा ॥१॥"
तथा च प्राभृते-'समस्तकाचशकलव्यूहपतितं रत्नं रत्नपरीक्षकः गृह्णाति, एवं सम्यग्दृष्टिः सर्वविभावपरभावपरिणतिमध्यस्थमात्मानमचलमखण्डमव्ययं ज्ञानानन्दमयं स्वत्वेन विभज्य उपादत्ते' । श्रीहरिभद्रपूज्यैश्च प्रथमं क्षुद्रादिदोषोपशमे' मार्गानुसारिगुणे तत्त्वजिज्ञासा । तत्त्वज्ञगुरुसेवनतः अतिमधुरत्वेन श्रुतरसिकः, यथार्थजीवा__१. शमैः S.M., V.2., A.D. विना । २. गुणैः S.M. विना ।
व रागाइया विभाजनो नियो अप्पा
परीक्षकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org