________________
श्रीज्ञानमञ्जरी
जीवविवेचनतः सर्वपरभावभिन्नमात्मानमुपलभ्य भेदज्ञानी भवति । स च क्रमेणात्मतः परं त्यजन् सर्वपरभावत्यागी सिद्ध्यति । तत्राद्यनयत्रयेण लौकिकलोकोत्तरविवेकः, ऋजुसूत्रनयेन धर्मसाधनविवेकः, शब्दादिनयत्रयेण विभावविभजनक्षयोपशमसाधनोपयोगादिक्षायिकसाधकपरिणतिविवेकः यथाक्रममवगन्तव्यः । तत्रात्मनः कर्मसंयोगैकत्वं विवेचयन्नाहः
कर्म जीवं च संश्लिष्टम्, सर्वदा क्षीरनीरवत् । 'विभिन्नीकुरुते योऽसौ मुनिहंसो विवेकवान् ॥१॥
१०४
,
कर्म जीवं च इति - कर्म - ज्ञानावरणादिकम् जीवं च सच्चिदानन्दरूपं सर्वदा - सर्वकालम्, क्षीरं पयः नीरं जलं तद्वत् संश्लिष्टम् एकीभूतं यो विभिन्नीकुरुते - लक्षणादिभेदैः पृथक् पृथक् कुरुते असौ मुनिहंसः विवेकवान् - भेदज्ञानवान् । जीवो नित्यः, पुद्गलसङ्गाः अनित्याः, जीवः अमूर्तः पुद्गला मूर्त्ताः जीवोऽचलः पुद्गलाश्चलाः, जीवः ज्ञानाद्यनन्तचेतनालक्षणः, पुद्गला अचेतना:, जीवः स्वरूपकर्ता, स्वरूपभोक्ता, स्वरूपरमणाभवविश्रान्ति, पुद्गलाः कर्तृत्वादिभावरहिताः, इत्यादिलक्षणैः विभज्य यो विरक्तः स मुनिः - श्रमणः विवेकवान्- विवेकयुक्त इति ज्ञेयम् ॥१॥
देहात्माद्यविवेकोऽयम्, सर्वदा सुलभो भवे । भवकोट्यापि तद्भेद-विवेकस्त्वतिदुर्लभः ॥२॥
देहात्मा इति-आत्मा त्रिविध:- बाह्यात्मा १ अन्तरात्मा २ परमात्मा ३ चेति । यस्य देहमनोवचनादिषु आत्मत्वभासः, देह एवात्मा एवं सर्वपौद्गलिकप्रवर्त्तनेषु आत्मनिष्ठेषु आत्मत्वबुद्धिः स बाह्यात्मा १ । मिथ्यादृष्टिः एषः । पुनः सकर्मावस्थायामपि आत्मनि ज्ञानाद्युपयोगलक्षणे शुद्धचैतन्यलक्षणे महानन्दस्वरूपे निर्विकारामृता
१ - २. विभिन्नं S.M., B.2., V.2. । ३. विश्रान्तः A.D., V.2., B. 1.2. । ४. आत्मत्वस्वभाव: V. 1., आत्मस्वभाव: V.2., B.2 I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org