SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ - १०१ विद्याष्टकम् (१४) मिथो युक्तपदार्थाना-मसंक्रमचमत्क्रिया । चिन्मात्रपरिणामेन, विदुषैवानुभूयते ॥७॥ मिथो युक्त इति- मिथः-परस्परं युक्तानां मिलितानां पदार्थानांधर्मादीनामेकक्षेत्रावगाहिनां पुद्गलानां च स्वक्षेत्रपरिणतानामसंक्रमचमत्क्रिया न संक्रमः परस्परममीलनरूपः चमत्क्रिया-चमत्कारः, एकक्षेत्रावगाढा अपि न परस्परं व्यापका भवन्ति इत्यनेन स्वरूपतो भिन्ना एव, एषा चमक्रिया विदुषा एव अनुभूयते-पण्डितेनैव विभज्यते । कथम्भूतेन विदुषा ? चिन्मात्रपरिणामेन- ज्ञानमात्रपरिणामेन । ज्ञानमात्रबलेन इत्यनेन पञ्चास्तिकायानामेकक्षेत्रस्थितानां कैश्चित्साधारणगुणैः अगुरुलघ्वादिभिः तुल्यानामपि असाधारणगुणैः गतिस्थित्यवगाहचेतनापूरणगलनादिलक्षणैश्च भेद एव । स्वाशुद्धग्राहकतागृहीतपुद्गलेष्वपि न स्वगुणसंक्रमः । नाऽपि पुद्गलगुणसंक्रमः जीवे । एषा भेदचमत्क्रिया भिन्नद्रव्ये स्वद्रव्यगुणपर्यायाणामेकद्रव्यव्याप्यावस्थितानामाधाराधेयत्वेनाभेदरूपाणामपि स्वस्वधर्मपरिणतिरूपा भेदचमत्क्रिया । एवं द्रव्याद् द्रव्यस्य, गुणाद् गुणस्य, पर्यायात्पर्यायस्य, स्वभावस्य भेदलक्षणा चमत्क्रिया विदुषा-पण्डितेनैव अनुभूयते । नान्येन द्रव्यानुयोगज्ञानविकलेन । उक्तं च सन्मतौ[60] अण्णोण्णाणुगयाणं इमं च तं च त्ति विभयणमसक्कं । जह दुद्धपाणियाणं जावन्त विसेसपज्जाया ॥४७॥ [सन्म० का०१, गा० ४७] जं दव्वखित्तकाले, एगत्ताणं पि भावधम्माणं । सुअनाणकारणेणं, भेए नाणं तु सा विज्जा ॥१॥ इति हरिभद्रपूज्यैः । द्रव्यानुयोगलीनानामाधाकर्मादिदोषमुख्यत्वं न तथा च भगवत्यङ्गे-61] "समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाणखाइम-साइमेणं पडिलाभेमाणे किं कज्जई ? गोयमा ! बहुतरा ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy