SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १०० श्रीज्ञानमञ्जरी सम्भवः- उत्पत्तिः यस्य स तस्मिन् । उक्तं च भवभावनायाम् - [59] सुक्कं पिऊणो माऊए, सोणियं तदुभयंपि संसदूं । तप्पढमयाए जीवो, आहारइ तत्थ उप्पन्नो ॥ २५४ ॥ को कायसुणयभक्खे, किमिकुलवासे य वाहिखित्ते य । देहम्मि मच्चुविहरे, सुसाणठाणे य पडिबन्धो ॥४२१ ॥ अतोऽस्थिरेऽपवित्रे औपाधिकेऽभिनवकर्मबन्धकारणे द्रव्याभावाधिकरणे कः संस्कारः ? ॥४॥ अथ देहे आत्मत्वारोपोऽपि बहिरात्मदोषौघः, अतस्तन्निवार्य स्वरूपे आत्मनः पावित्र्यं करणीयम् । तदुपदिशति यः स्नात्वा समताकुण्डे, हित्वा कश्मलजं मलम् । पुनर्न याति मालिन्यम्, सोऽन्तरात्मा परः शुचिः ॥५॥ यः स्नात्वेति-सः-अन्तरात्मा देहाद् भिन्नात्मज्ञानी - स्वपरविवेकी पर:- प्रकृष्टः, शुचि:- पवित्रः ज्ञेयः यः पुरुषः, समता - अरक्तद्विष्टता तद्रूपे कुण्डे स्नात्वा कश्मलजं - पापोत्पन्नं मलं हित्वा पुनः मालिन्यं न याति - न प्राप्नोति सम्यक्त्वभावितात्मा परमः शुचिः, 'बन्धेण न वोलइ कयावि' इति वचनात् सम्यग्दृष्टिरनेनांशेन स्नातकः न पुनः उत्कृष्टां स्थितिं बध्नाति, एतदेव सहजं पवित्रत्वम् ॥५॥ आत्मबोधो न वः पाशो, देहगेहधनादिषु । यः क्षिप्तोऽप्यात्मना तेषु, स्वस्य बन्धाय जायते ॥६॥ आत्मबोध इति - भो भव्याः ! वः - युष्माकं आत्मबोधःआत्मज्ञानं न पाश:- न बन्धहेतुः तेषु देहगृह (गेह - ) धनादिषु यः आत्मना क्षिप्तः स पाशः - रागपरिणामः स्वस्य आत्मन एव बन्धाय जायते इत्यनेन देहगृहादिषु यः रक्तः सर्वः भवपाशे बध्नाति स्वस्य बन्धहेतुः इत्यनेन परभावा रागादयः आत्मनः बन्धवृद्धिहेतवः ॥६॥ १. सर्वप्रतिषु नास्ति । २. धनादिकम् A.D., V. 1. । ३. एवं B. 2., L.D.2., S.M. 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy