________________
विद्याष्टकम् (१४)
९९
मलिम्लुचः - तस्करः छलं-छिद्रं लब्धुं न शक्नोति न समर्थो भवतीत्यनेन यथार्थज्ञानवतो रागादयो न प्रवर्धन्ते, तस्यात्मा मोहाधीनो न भवति ॥२॥
तरङ्गतरलां लक्ष्मीमायुर्वायुवदस्थिरम् ।
अदभ्रधीरनुध्यायेद्, अभ्रवद् भङ्गुरं वपुः ॥३॥
तरङ्गतरलामिति - अदभ्र धीः- पुष्टबुद्धिः, लक्ष्मीः तरङ्गवत्जलधिकल्लोलवत् तरला - चपला तां तरङ्गतरलामस्थिरामनुध्यायेत्, आयुः - जीवितं वायुवद् अस्थिरं गत्वरं प्रतिसमयविनश्वरमध्यवसानादिविघ्नोपयुक्तम्, अनुध्यायेत् - चिन्तयेत् । वपुः शरीरं पुद्गल - स्कन्धनिचितम्, अभ्रवद्भङ्गुरं- भङ्गशीलमनुध्यायेत्, इदं च यथार्थचिन्तनं भावना च । स्वसंपद्विमुक्तेन पृथ्वीकायस्कन्धाः सम्पद्रूपेण उपचरिता न च ते सम्पत् । तथा जीवः ज्ञानदर्शनवीर्यसुखरूपैः भावप्राणैरेव जीवति आयुर्जीवनं तु बाह्यप्राणसम्बन्धस्थितिहेतुः । तन्नात्मस्वरूपम् । तथा वर्ण- गन्ध-रस-स्पर्शाचेतनशरीरोपचयश्च न स्वरूपम्, तदपि अस्थिरम्,. इत्येवमस्थिरे परभावे स्वात्मधर्मप्रध्वंसके कः प्रतिबन्धः ? तदर्थं च स्वगुणान् चेतनावीर्यादीन् कः परभावग्रहणोन्मुखान् करोति? अतः आत्मनि आत्मगुणप्रवृत्तिरेव करणीया ||३||
--
शुचीन्यप्यशुचीकर्तुं समर्थेऽशुचिसम्भवे ।
देहे जलादिना शौच-भ्रमो मूढस्य दारुणः ॥४॥
Jain Education International
-
शुचीन्यपीति - मूढस्य - अज्ञस्य यथार्थोपयोगरहितस्य, देहेइन्द्रियायतने जलादिना - पानीयमृत्तिकादिसङ्गेन शौचभ्रमः श्रोत्रियादीनां दारुण:-भयकृत् । यश्च जात्याऽशुचिः, स किं जलव्यूहैः शुचीभवति ? कथम्भूते देहे ? शुचीन्यपि - कर्पूरादीन्यपि अशुचीकर्तुं - मलीकर्तुं समर्थे, देहसङ्गाद् मलयजविलेपनादयोऽप्यशुचीभवन्ति । पुनः कथम्भूते देहे ? अशुचिसम्भवे अशुचि - आर्तवं मातुः रक्तम् पितुः शुक्रम्, तेन
१. सर्वप्रतिषु नास्ति ।
For Private & Personal Use Only
www.jainelibrary.org