________________
९८
श्रीज्ञानमञ्जरी भूतेन, साधका निर्विकल्पतात्त्विकी । तथा केचित्- केवलज्ञानरूपसिद्धविद्या इति आद्यनयचतुष्टयस्य द्रव्यनिक्षेपान्तर्गतत्वेन कारणरूपा गृहीता । अन्त्यनयत्रयाणां भावरूपत्वेन कार्यरूपा उत्तरोत्तरसूक्ष्मा गृहीता, तत्र कारणोद्यमेन कार्यादरवता भवितव्यम् । नित्यशुच्यात्मताख्याति-रनित्याशुच्यनात्मसु । अविद्यातत्त्वधीविद्या, योगाचार्यैः प्रकीर्तिता ॥१॥
नित्यशुच्येति-अनित्याशुच्यनात्मसु नित्यशुच्यात्मताख्यातिः अविद्या इत्यन्वयः । अनित्ये-चेतनाद् जातिभिन्नमूर्तपुद्गलग्रहणोत्पन्ने परसंयोगे, या नित्यताख्यातिः सा अविद्या । अशुचिषु-शरीरादिषु श्रवन्नवद्वाररन्ध्रेषु १शुद्धस्वरूपावरणनिमित्तेषु शुचिख्यातिः । अनात्मसु-पुद्गलादिषु आत्मताख्याति:-'अहं ममेति बुद्धिः इदं शरीरं मम, अहमेवैतत्, तस्य पुष्टौ पुष्टः,' इति ख्याति:-कथनं ज्ञानम्, तत्र रमणमियम् अविद्याभ्रान्तिबुद्धिः । या च तत्त्वधी:-तत्त्वबुद्धिः, शुद्धात्मनि नित्यता शुचिता आत्मता इति ज्ञप्तिः विद्या-तत्त्वविवेकः । अत्र नित्यत्वं तु उत्पादव्ययध्रुवरूपेऽपि अर्पितानर्पितप्रकारेण द्रव्यास्तिककूटस्थनित्यता ज्ञेया, इयं विद्या परमार्थसाधनपट्वी योगाचार्यैः-योगः-ज्ञान-श्रद्धानचरणात्मकमोक्षोपायः तस्य आचार्याः- तदाचरणकुशलाः तैः प्रकीर्तिता । अत्र भेदज्ञानं साधनम् । उक्तं च अध्यात्मबिन्दौ[58] ये यावन्तो ध्वस्तबन्धा अभूवन्,भेदज्ञानाभ्यास एवात्र बीजम् । नूनं येऽप्यध्वस्तबन्धा भ्रमन्ति, तत्राभेदज्ञानमेवेति विद्मः ॥१९॥
यः पश्येन्नित्यमात्मानमनित्यं परसङ्गमम् । छलं लब्धुं न शक्नोति, तस्य मोहमलिम्लुचः ॥२॥
यः पश्येदिति-य:-आत्मार्थी आत्मानम्, नित्यं-सदा अचलितस्वरूपम्, पश्येत्-अवलोकयेत्, परसङ्गमं-शरीरादिकम् अनित्यम्-अध्रुवं पश्येत्, तस्य-साधनोद्यतस्य मोहो-मौढ्यं मुह्यता-मिथ्यात्वादिभ्रान्तिरूपा
१. शुद्धं V.2., B.11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org