________________
३६
श्रीज्ञानमञ्जरी चिन्तयन्ति स्वधर्मानन्तताम्, ध्यायन्ति स्वगुणपर्यायपरिणामम्, मग्ना भवन्ति तदनुभवनेन, त्यजन्ति सर्वपरभावानुमोदनामिति एवंप्रकारेण मुनेः-त्रिकालनिविषयस्य ज्ञाततत्त्वस्य मुष्टिज्ञानस्थितिः अवस्थानम्, संक्षेपरहस्यज्ञानविश्रामः मर्यादा, कथंभूता स्थितिः ? दत्तात्मसन्तुष्टिः, दत्ता-प्रदत्ता आत्मनः सन्तुष्टिः-सन्तोष इत्यनेन आत्मग्रहणं परपरित्यागः इति मर्यादा निर्ग्रन्थस्य ॥५॥
अस्ति चेद् ग्रन्थिभिद् ज्ञानम्, किं चित्रैस्तन्त्रयन्त्रणैः । प्रदीपाः क्वोपयुज्यन्ते ?, तमोघ्नी दृष्टिरेव चेत् ॥६॥
अस्तीति- चेत्-यदि ग्रन्थिभित्-ग्रन्थिभेदोत्पन्नं विषयप्रतिभासदलविकलम् आत्मधर्मवेद्यसंवेद्यरूपं ज्ञानं प्रतिभासः अस्ति, तन्त्रयन्त्रणैः चित्रैः-अनेकप्रकारैः परसाधनानिमित्तैः किं ? न किमपि । सम्यग्दर्शनज्ञानचारित्रभावपरिणतस्य किं परापेक्षया ? । तत्र दृष्टान्तः । चेत् दृष्टि:चक्षुः तमोघ्नी-तमः-अन्धकारं तस्य घ्नी-हन्त्री (तद् हन्तीति) प्राप्ता तदा प्रदीपाः क्व उपयुज्यन्ते ? न क्वापि । दृष्टिः सर्वावलोकनक्षमा तर्हि सहायभूतदीपस्य किं प्रयोजनम् ? अत्र ग्रन्थिभेदस्वरूपम्-तत्र पञ्चेन्द्रियत्व-संज्ञित्व-पर्याप्तत्वरूपाभिस्तिसृभिः लब्धिभिः युक्तः, अथवा उपशमलब्धिः उपदेशश्रवणलब्धिः करणत्रयहेतुप्रकृष्टयोगलब्धित्रिकयुक्तः, करणकालात्पूर्वमपि अन्तर्मुहूर्तकालं यावत् प्रतिसमयमनन्तगुणवृद्ध्या विशुद्ध्या विशुध्यमाना अवदातायमाना चित्तसन्ततिः ग्रन्थिकसत्त्वाना मभव्यसिद्धिकानां या विशोधिः तामतिक्रम्य वर्तमानः, ततोऽनन्तगुणविशुद्धः, अन्यतरस्मिन्-मतिश्रुतविभङ्गान्यतमस्मिन् साकारोपयोगे योगे चान्यतमस्मिन् वर्तमानः, तिसृणां विशुद्धानां लेश्यानामन्यतमस्यां लेश्यायां वर्तमानो, जघन्यतस्तेजोलेश्यायां मध्यमपरिणामेन पद्मलेश्यायामुत्कृष्टपरिणामेन शुक्ललेश्यायाम्, तथा पूर्वजानां सप्तानां कर्मणां स्थितिमन्तःसागरोपमकोटीकोटीप्रमाणं कृत्वा अशुभानां कर्मणामनुभागं चतुःस्थानकं सन्तं द्विस्थानकं करोति, शुभानां च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org