________________
ज्ञानाष्टकम् (५)
३७
कर्मणां द्विस्थानकं सन्तं चतुःस्थानकं करोति, तथा ध्रुवप्रकृति: सप्तचत्वारिंशत्सङ् ख्यया बध्नन् परावर्त्तमानाः स्वस्वभवप्रायोग्याः प्रकृती: शुभा एव बध्नाति ता अप्यायुर्वजः । अतीव विशुद्धपरिणामो हि नायुर्बन्धमारभते, यदुत तिर्यङ्मनुष्यो वा प्रथमं सम्यक्त्वमुत्पादयन् देवगतिप्रायोग्याः शुभाः प्रकृतीः बध्नाति देवो नैरयिको वा प्रथमं सम्यक्त्वमुत्पादयन् मनुजगतिप्रायोग्याः शुभाः प्रकृती: बध्नाति, सप्तमनरकनारकस्तिर्यग्द्विकं नीचैर्गोत्रं बध्नाति, भवप्रायोग्यात् बध्यमानस्थितिमन्तःसागरकोटाकोटिं बध्नाति, नाधिकाम्, योगवशात्, प्रदेशाग्रमुत्कृष्टजघन्यमध्यमं च बध्नाति, स्थितिबन्धे पूर्णे सत्यन्यं स्थितिबन्धं प्राक्तनस्थितिबन्धापेक्षया पल्योपमासङ्ख्येयभागन्यूनं करोति, ततोऽन्यं पल्योपमासङ् ख्येयभागं न्यूनं करोति, अतः अन्यं स्थितिबन्धं पूर्वपूर्वापेक्षया पल्योपमासङ् ख्येयभागन्यूनं १ करोति, अशुभानां च प्रकृतीनां बध्यमानानामनुभागं द्विस्थानकं बध्नाति तमपि प्रतिसमयमनन्तगुणहीनम्, शुभानां च चतुःस्थानकम्, प्रतिसमयमनन्तगुणवृद्धिं कुर्वन् करणं यथाप्रवृत्तं करोति, ततोऽपूर्वकरणम्, ततः अनिवृत्तिकरणमिति, करणं परिणामविशेषः । एतानि च त्रीण्यपि करणानि प्रत्येकमन्तमुहूर्त्तकानि तत: उपशान्ताद्धा लभते, सापि चान्तमुर्हृतिकी । यथाप्रवृत्तिकरणं चः
[17] अणुसमयं वहू॑तो, अज्झवसाणाणंतगुणणाए । परिणामहीणाणं, दोसु वि लोगा असंखिज्जा ॥९॥ (कर्मप्र० उप० क० गा० ९)
इति कर्मप्रकृतौ प्रतिसमयमध्यवसानानामनन्तगुणतया विशुद्धया वर्द्धमानानां करणसमाप्ति यावद् वर्द्धते । तानि कियन्ति अध्यवसानानि भवन्ति ? द्वयोरपि यथाप्रवृत्तापूर्वकरणयोः परिणामाः स्थानानामनुसमयं लोकासङ्ख्येया भवन्ति यथाप्रवृत्तकरणे अपूर्वकरणे च प्रतिसमये१. भाग्यन्यूनं B. 1.2. V. 1. ।
Jain Education International
?
For Private & Personal Use Only
www.jainelibrary.org