SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ज्ञानाष्टकम् (५) वादांश्च प्रतिवादांश्च, वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ ॥४॥ वादांश्चेति-वादान्-पूर्वपक्षरूपान्, प्रतिवादान्-उत्तरपक्षरूपान्, परपराजयस्वजयेच्छया वदन्तः-विवादशुष्कवादादि कुर्वन्तः, तत्त्वान्तंतत्त्वस्य वस्तुधर्मरूपस्य अन्तं-पारम्, नैव गच्छन्ति-नैव लभन्ते । कथंभूतान् वादान् ? अनिश्चितान्-अनिर्धारितपदार्थस्वरूपान्, वदन्तः तत्त्वप्रान्तं-स्वीयात्यन्तिकाकृत्रिमात्मज्ञानानुभवरूपं नैव लभन्ते । किंवत् ? गतौ-गमने तिलपीलकवत्-तिलपीलकवृषभवत्, भ्रमन् किञ्चित् स्थानान्तरं न लभते, एवं तत्त्वज्ञानानभिलाषी अनेकशास्त्रश्रमं कुर्वन् न तत्त्वानुभवं स्पृशति, अतः यथार्थतत्त्वज्ञानरुचिमत्तया भवनीयम् ॥४॥ स्वद्रव्यगुणपर्याय-चर्या वर्या पराऽन्यथा ।। इति दत्तात्मसन्तुष्टिर्मुष्टिज्ञानस्थितिर्मुनेः ॥ ५ ॥ स्वद्रव्येति- स्वद्रव्ये-गुणाश्रयलक्षणे शुद्धात्मनि, स्वगुणे-एकद्रव्याश्रितसहभाव्यनन्तपर्यायोपेतज्ञानदर्शनचारित्रस्वरूपे, स्वपर्यायेउभयाश्रयलक्षणे अर्थव्यञ्जनादिभेदे, चर्या-तन्मयतापरिणतिः तत्र वर्तना, वर्या-श्रेष्ठा । स्वद्रव्यगुणपर्याये परिणमनमात्महितम् । आया सहावनाणी, भोई रमई वि वत्थुधम्ममि । सो उत्तमो महप्पा, अवरे भवसूयरा' जीवा ॥१॥ २परापरद्रव्यगुणपर्यायरमणानुभवलक्षणा परिणतिः अन्यथा कार्या अहिता । परभावपरिणाम एव २भ्रमणहेतुः । उक्तं च परसंगेण बंधो, मुक्खो परभावचायणे होई । सव्वदोसाण मूलं, परभावाणुभवपरिणामो ॥१॥ अत एव देशविरतसर्वविरताः प्रत्याख्यान्ति परिग्रहादीन्, त्यजन्ति स्वजनपरिजनान्, प्रतिपद्यन्ते एकाकिविहारम्, शृण्वन्ति स्वसत्तागोष्ठिम्, १. सूयए B.1.2. V.1.2. S.M.I २. पर० S.M. विना । ३. भवभ्र० S.M.I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy