________________
३१८
परिशिष्ट - ६
द्विड्वत्तद्विपदन्तभञ्जनभुजस्तम्भैर्जयश्रीः क्व नु. प्राप्या सङ्गरमूर्धनि व्यवसित: क्लीबः क्व तल्लिप्सया॥२॥
-सङ्घपट्टक-टीका-मंगलचारण सूरिः श्रीजिनवल्लभोऽजनि बुधश्चान्द्रे कुले तेजसा, सम्पूर्णोऽभयदेवसूरिचरणाम्भोजालिलीलायितः। चित्रं राजसभासु यस्य कृतिनां कर्णे सुधादुर्दिनं, तन्वाना विबुधैर्गुरोरपि कवेः कैर्न स्तुताः सूक्तयः? ॥ १॥ हित्वा वाङ्मयपारदृश्वतिलकं यं दीप्रलोकम्पृणं, प्रज्ञानामपि रञ्जयन्ति गुणिनां चित्राणि चेतांस्यहो। लुण्टाक्यश्च्युततन्द्रचन्द्रमहसामद्याप्यविद्यामुषः, कस्यान्यस्य मनोरमाः सकलदिक्कूलङ्कषाः कीर्तयः? ॥२॥ माधुर्यशार्करितशर्करया रयाद् यं, पीयूषवर्षमिव तर्कगिरा किरन्तम्। विद्यानुरक्तवनिताजनितास्यलास्यं, हित्वा परत्र न मनो विदुषामरंस्त ॥ ३ ॥
-सङ्घपट्टक-टीका-प्रशस्तिः तदनुसमभूच्छिष्यस्तस्य प्रभुर्जिनवल्लभो, जगति कवितागुम्फा यस्य द्रवद्रसमन्थराः। अनितरकविच्छायापत्या चमत्कृतिचुञ्चवो, न हृदि मधुरा लग्नाः कस्य स्मरस्य यथेषवः?॥८॥
-पञ्चलिङ्गीप्रकरण-टीका-प्रशस्तिः ११. जिनपालोपाध्याय-[१३वीं शती]
चित्रं चित्रं वितन्वन्नवरसरुचिरं काव्यमन्यच्च भूयः, सर्वं निदोषमह्नोमुखमिव सगुणत्वेन पट्टांशुकश्रि। कान्तावत्कान्तवर्णं भरतनृपतिवच्चालङ्कारसारं, चक्रे माघादिसूक्तेष्वनभिमुखमहो धीमतां मानसं यः॥ १० ॥
-सनत्कुमारचक्रिचरितमहाकाव्य प्रशस्तिः ततोऽजनि श्रीजिनवल्लभाख्यः, सूरिः सुविद्यावनिताप्रियोऽसौ। अद्यापि सुस्था रमते नितान्तं यत्कीर्तिहंसी गुणिमानसेषु ।। ५ ॥
-धर्मशिक्षा-टीका-प्रशस्तिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org