________________
जिनवल्लभसूरि-ग्रन्थावलि
गुञ्जापुञ्जारुणकररुहाऽऽयामसम्पन्नबाहो ! भन्दारामे कुसुमसमयं वीरदेवाविलम्बम् । गङ्गानीरामल ! गुणलवं ते समुच्चारिणे मे, सिद्धावासं बहुभवभयारम्भरीणाय देहि ॥ २९ ॥
लसन्तं संसारे सुरनरसमुल्लासकरणं, वहे वारं वारं तव गुणगणं देव! विमलम् । अपारं चित्ते वा बहुलसलिले बिन्दुनिवहं, महापारावारेऽमरणभय! कल्लोलकलिले ॥ २८ ॥
Jain Education International
इति श्रीखरतरगच्छाधिराज श्रीजिनहंससूरिशिष्यमहोपाध्याय - श्रीपुण्यसागरशिष्येण वाचकपद्मराजगणिना कृतं भावारिवा
रणान्त्यपादसमस्यामयं
समसंस्कृतस्तवनम्।
000
३०३
एवं श्रीजिनवल्लभप्रभुकृतस्तोत्रान्त्यपादग्रहात्, कृत्वा ते समसंस्कृतस्तवमहं पुण्यं यदापं मनाक् । संसेव्यक्रमपद्म! राजनिकरैः श्रीवीर ! तेनार्थये, नाथेदं प्रथय प्रसादविशदां दृष्टिं दयालो ! मयि ॥ ३० ॥
For Private & Personal Use Only
www.jainelibrary.org