________________
जिनवल्लभसूरि-ग्रन्थावलि
३०१
संसारिकामपरिपूरणकामकुम्भं, सञ्चारिहेमनवक परम्परासु। सेवामि ते चरमदेव! समन्तसेविसङ्घावलीदमिगणं चरणं चरन्तम् ॥ १६ ॥
सन्नद्धधीरवरवीरसवेगबाणछायानिरुद्धतरुणारुणचण्डबिम्बे। सम्पन्नघोरतुमुले गुरुभीरुकम्पे, कङ्कालसंकुलभयावहभूमिभागे। १७ ।। भल्लासिभिन्नहयवारणवारवाणसाडम्बरारिकरणावरणे दुरन्ते। चित्ते चिराय तव नाम वरं वहन्तो, वीरं नरा रणभरेऽरिचलं जयन्ति ।। १८ ॥
युगलकम् संवित्तिवित्तकरुणारसवारिकुण्डं, पीडाहरं गुणसमूहमणीकरण्डम्। संसारसिन्धुजलकुम्भभवं भवन्तं, सेवन्ति के न भगवन्तमघं हरन्तम् ॥ १९ ॥
सञ्चारभूचरणकेवलसिद्धिवाससंवासवासरवरा इह वीरदेव! देवासुरोरगकुमारसहेलभूमी
चारेण ते परममुद्धवमावहन्ति ॥ २० ॥ हे वीर! मेरुगिरिधीर! वसुन्धरालङ्काराभतारवसुभूरिमयोरुसाल! आरोहिमङ्गलमहीरुहकन्द! भिन्नसंसारचारजय जीवसमूहबन्धो!॥ २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org