________________
३००
परिशिष्ट - ३
अंहोमयं निविडसंतमसं हरन्ती, संदेहकीलनिवहं सममुद्धरन्ती। हिंसानिबद्धसमयानयधीदुरूहसम्बन्धबुद्धिहरणी तव देव! वाणी ॥ १०॥
गम्भीरिमालय! महापरिमाणमङ्गसम्बद्धभङ्गलहरीबहुभङ्गिचङ्गम्। नीरालयं नयमणीकुलसंकुल वा,
देवागमं तव नरा विरला महन्ति ॥ ११ ॥ भेरीरणं दिवि सुदायगिरं भणन्तो, देवा वहन्ति तव पारणदायिगेहे। धाराचयं वसुमयं च सचेलचालं, मन्दारकुन्दकबरं कुसुमं किरन्ति ॥ १२ ॥
उद्दण्डचण्डकरणोरुतुरङ्गवारमुद्दामतामसकरेणुबलं च वीरम्। सम्मोहभूरमणभूरिबलं दलन्त
मुत्तुङ्गमारकरिकेसरिणं नमामि ॥ १३ ॥ वंदारुचारुसुरकिन्नरसन्निकार्य, विच्छिन्नभीमभयकारणसम्परायम् । निस्सीमकेवलकलाकमलासहायं, वीरं नमामि नवहेमसमिद्धकायम्॥ १४ ॥
आरामधामगिरिमन्दरकन्दरासु, गायन्ति भूमिवलये गुणमण्डलं ते। नारी नरा सुरवरा अमरा अमन्द ! संदेहरेणुहरणोरुसमीर! वीर! ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org