________________
૨90
सरस्वतीस्तोत्रम्
दुरितमलभित्तापक्षेष्णुः सुरासुरसुन्दरीजतनतशिरोऽराजद्रनस्फुरन्मकरी सिता। सुविकचरुजा लावण्योद्यत्पयःप्लववाहिनी,
मदऽनवगमोदन्यां हन्यात् त्वदघ्रियुगापगा॥ १२ ॥ विशदितदिशं विश्वाकाशां विकाशी विसृत्वरी, द्विरदवदनच्छेदोद्यच्छच्छुचिच्छविजित्वरीम् । रसवशलसच्चञ्चूचञ्चच्चकोररुचीजनस्तव मुखशशिज्योत्स्नां धन्यो दृगञ्जलिना पिबेत् ॥ १३ ॥
हृदिजविमविद्यान्ध्यध्वान्तप्रबन्धविजृम्भिणच्छिदुरतरणिं वन्दारूणां सरागपरागतम्। परमगरिमस्फूर्जजाड्यक्षितिध्रपरम्परा
भिदुरभिदुरं यत्त्वन्नामामनन्ति मनीषिणः॥ १४॥ नृपतिसदसि द्यूते वादे विवादविचारणे, समदकविषु क्रीडाकाव्येऽथवा विषमे परे। स्मरति तव चेजन्तुर्दत्ताखिलेप्सितसम्पदः, प्रभवति तदा सर्वारम्भोल्लसद् विजयोज्ज्वलः ॥ १५॥
जगति विबुधास्त्वां कल्याणी शुभां विजयां जयां, सुमनसमिमां सिद्धिं वृद्धि जयन्त्यपराजिताम्। जगदुरभयां शान्तां भद्रां शिवामथ मङ्गलां,
धृतिरतिमति-स्वस्ति-श्री-कीर्ति-तुष्टि-सुपुष्टिदाम्॥ १६॥ जगति नमतां बाल्याज्जाड्यस्खलद्वचनश्रुतिगलितसकलप्रज्ञालेशो गतप्रतिभोऽपि सन्। शरदिजशशिश्वेतं रूपं तवाम्ब! हृदि स्थितं, दधति रचयत्युद्यत्कीर्तिं तमप्यधिकं गिराम्॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org