________________
४४. सरस्वतीस्तोत्रम् [हरिणी - छन्दः ]
सरभसलसद्भक्तिप्रह्वीभवत्त्रिदशाङ्गनामुकुटविसरन्नानारत्नच्छविच्छुरितक्रमाम् । कविशतनुतां स्तोष्ये भक्त्या किलास्मि सरस्वतीं, त्रिभुवन जनस्फूर्जन्मोहप्ररोहकुठारिकाम् ॥ १ ॥
निपुणधिषणोनन्तान् कान्तान् गुणानविदस्तवस्तव कृतमतिस्तूष्णीकत्वं प्रयात्यपि वाक्पतिः। चरमजलधेर्यद्वा कः स्यात् कणान्पयसोऽखिलान्, गुणयितुमलं जन्तुर्वाग्मी पटुश्चिरजीव्यपि ॥ २ ॥ तदपि गुणसंदोहाद्देशप्रकीर्त्तनतोऽप्यहं, स्वमभिलषितुं लिप्सुर्बुद्धिं तव स्तवनेऽधरम् । गतमतिलवोऽप्यन्तः पुष्यन् मतार्थ- मनोरथास्स्खलितमनसो यद्वा किञ्चिन्नवे विदति क्वचित् ॥ ३ ॥ स्मरणजनितक्लेशावेशाद् ददत्यभिवाञ्छितं, कियदपि जडाश्चिन्तारत्नप्रकल्पलतादयः । तव पदयुगं चिन्तातीतं किमप्यतिबन्धुरं झटिति फलति ध्वस्तध्वान्तप्रवर्द्धितसम्मदे ! ॥ ४ ॥ सितकजकरा दिग्व्यासर्पिस्वकायसितप्रभापटलपयसि स्फारोत्फुल्लत्सिताम्बुरुहस्थिता । नतसुरनरैः क्षीराम्भोधिप्रकाशिजलोल्लसद्विमलकमलालीनालक्ष्मीरिव त्वमुदीक्ष्यसे ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org