________________
जिनवल्लभसूरि-ग्रन्थावलि
२४३
नलिननिहितपादं योजनव्यापिनाद, हतकुनयविवादं धर्मिणां सुप्रसादम्। परिमुषितविषादं नौमि मुक्त्वा प्रमाद,
सुखमितमितसादं पार्श्वमुद्घप्रवादम्॥ ६॥ क्षतदुरितविकारं ध्वस्तबन्धप्रहारं, प्रहतडमरमारं नश्यदीतिप्रचारम्। कृतजगदुपकारं नाकलोकानुकारं, जिन! तव बहुवारं स्तौमि भूमीविहारम् ॥ ७॥
नतजनजनिताशं विश्वविश्वप्रकाशं, विशदगुणभृताशं हन्तदीप्त्यस्तकाशम्। दितपरिचयपाशं त्वां स्तुवेऽतः सदाशं,
जिन! बृहदवकाशं यच्छ मे छिन्नपाशम् ॥ ८॥ नखरुचिमधुधारं स्वाङ्गलीपत्रभारं, श्रिय उचितमगारं विश्वभूषाप्रकारम्। क्रमकमलमुदारं ते स्वभाम्भ:प्रसारं, भ्रमर इव कदारं पार्श्व! लेढास्मि सारम्॥ ९॥
विधुरहरणदक्षं भव्यबोधैकलक्षं, विजितविलसदक्षं पुण्यभाजां समक्षम्। प्रणमदमरयक्षं दग्धदुष्कर्मकक्षं,
प्लुतकुमतविपक्षं पार्श्वमार्त्तातिरक्षम् ॥ १०॥ सुकृतसमभिहारं मुक्त्युरस्तारहारं, गदगिरिसितधारं सिद्धिरामाभिसारम्। कृतकमठनिकारं कीर्णलोकापकारं, वरद! निरतिचारं त्वां नुमो निर्विकारम् ॥ ११॥
शिवगमनविमानं मुक्तिकान्तैकतानं गुणगणमसमानं बिभ्रतं भ्राजमानम्। अकलितमहिमानं वार्षिकोदारदानं, नमत सुगतियानं पार्श्वमस्ताभिमानम् ॥ १२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org