________________
४१. स्तम्भन-पार्श्वनाथ-स्तोत्रम्
( मालिनी-वृत्तम् )
विनयविनमदिन्द्रं मन्मनोऽम्भोधिचन्द्रं, हितकृतिगततन्द्रं प्राणिषु प्रीतिसान्द्रम् । वचसि जलदमन्द्रं संस्तुवे पार्श्वचन्द्रं, त्रिजगदवितथेन्द्रं धैर्यधूताचलेन्द्रम्॥ १॥
सुमुनिगणगरिष्ठं प्राप्तविज्ञानकाष्ठं, वरचरणवरिष्ठं स्तम्भने सुप्रतिष्ठम्। जगदवनपटिष्ठं कर्मनाशाल्लघिष्ठं,
शमनिधिमतनिष्ठं पार्श्वमर्चाम्यनिष्ठम्॥ २॥ त्रिभुवनजनवन्द्यां सर्वलोकाभिनन्द्यां, प्रतिरवनिचितान्द्यां कुर्वतीमस्तमान्द्याम्। गिरमनुपमपद्यां चञ्चदुद्दामगद्यां, हृदि कुरु निरवद्यां पार्श्वनाथास्यविद्याम् ॥ ३॥
हृतविषयपिपासं सिद्धधामाधिवासं, गतसकलविलासं फुल्लनीलाब्जभासम्। धुतभयमपहासं त्वां नतं त्वत्कदासं
कुरु सुभव जिहासं पार्श्व! मन्धीविकासम्॥ ४॥ मधुमधुरविरावं क्लेशकान्तारदावं, भवजलनिधिनावं सम्यगादिष्टभावम्। गुरुलसदनुभावं चण्डताकाण्डलावं, मदकरिहरिशावं पार्श्वमीडेऽस्तहावम्॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org