SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २३८ गुणैः पुष्टं जुष्टं चरणचलसत्साधुमधुपैग्रदिष्ठौष्ठ श्रेष्ठच्छदमिव कदन्तद्युतिमधुः । श्रियो रम्यं हर्म्यं भुवननदशोभाकरमरं कदास्मि द्रष्टास्मि स्मितकमलकान्तं तव मुखम् ॥ ६॥ धियाहीनो दीनः कुकृतशतलीनः सुकृपणो, गुणैर्वान्तस्तान्तस्तत भवमहावर्त्तपतितः । विलग्नो भग्नोऽहं तव पदयुगे तद्गुरुकृपाकृपाणी कृत्तान्त: करणशरणं त्वं मम परम् ॥ ७॥ न रुग्नाहिर्नाधिर्न दवदहनो नोन्मदकरी, न चौरी नैणारिर्न समरभरो नारिनिकरः । न रौद्रक्षौद्रोग्रग्रहडमरमारिप्रभृतयो, भयं कुर्वन्त्यन्तर्जिनवर ! भवन्नामजपताम् ॥ ८॥ स्तम्भन-पार्श्वनाथस्तोत्रम् अनुष्णं शुष्णं तं सुविमलविभामण्डलमलं, ग्रहग्रासापेतं विनिहतमहामोहतिमिरम् । समं लोकालोकप्रकटकमजस्रोदितमहं, विलोकिष्ये! कर्हि क्षततततमस्त्वापररविम् ॥ ९ ॥ मुदा नृत्यन्नुच्चैश्चलकिशलयोऽशोकविटपीरणद्भृङ्गोद्गीता सुरभिसुमनो वृष्टिरभितः । रुचारोदोरन्ध्रं पिदधदुरुरत्नासनवरं, विधत्तेदश्छत्रत्रितयमधिप त्वं त्रिजगताम् ॥ ११ ॥ For Private & Personal Use Only Jain Education International नितान्तं यत्कान्तं प्रविततमनन्तं च सततं, प्रकाशं विश्वाशास्वऽशिशु शशिशोचिः शुभरुचिः । अजय्यं न क्षय्यं श्रुतमपि चमत्कारिमनसो, दधानन्तज्ञानं स्व यश इव वन्दे महिविभुम् ॥ १० ॥ www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy