________________
४०. स्तम्भन-पार्श्वनाथ-स्तोत्रम्
(शिखरिणी-वृत्तम्)
समुद्यन्तो यस्य क्रमनखमयूखा विदधिरे, नमन्नानानाकिप्रभुशिरसि चूडामणिरुचम्। स्तुवेऽहं तं पार्श्व निजतनुविभा नीलनलिनैः, ककुप्कान्तोत्तंसानिव विदधिवांसं सरभसम्॥ १॥
विभोः यौष्माकीणं स्तवति तनिषा यद्यपि भवेदशक्तेः शक्रादेरपि परिभवायैव तदपि। अनन्योपायत्वादभिमतफलातेरकरवं,
मनोऽत्रार्थेऽत्यर्थी भवदरपरीतोऽतिकृपणः॥ २॥ प्रशान्तं सद्वृत्तं सपदि कुमुदाप्यायनपरं, सदा हृद्योद्दामद्युतिदलितदोषान्धतमसम्। बुधानन्दस्यन्दं धरणिमरणीरम्यतिलकं, मुखेन्दुं द्रक्ष्यामि क्षपितजलजातं तव कदा॥ ३॥
भवाम्भोधौ मग्नं प्रणयिजनमुत्तार्य बहुधा, विधायाधिव्याधिक्षयमिह जिन! त्वं शिवमगाः। इदानीं भावत्की प्रतिकृतिरपि स्तम्भनपुरे,
निविष्टा शिष्टानां जनयति नतानामभिमतम् ॥ ४॥ नराः कासश्वासक्षयनयनरुक्कुष्ठकिटिभज्वरातीसारार्शः श्रुतिमुखरदव्याधिविधुराः। निरस्ताः सद्वैद्यैरपि सपदि सिद्धौषधिविधेस्तव ध्यानाद्देव! स्युरिह घटितोल्लाघवपुषः॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org