________________
२३४
उन्मीलल्लीलमुद्यल्ललितमुदयदस्तो कविब्बो कमुच्चैः, सा चिप्राञ्चत्टाक्षच्छटमधिक भवद्विभ्रमारेचितभ्रु । स्वः स्त्रीणां नाक्षिपद्यः स्मरपरवदितिव्यक्तशृङ्गारभावं, भव्याधिव्याधिबन्धं हरतु स भगवान् भग्नकन्दर्पदर्पः ॥ ६ ॥ दैन्यादन्यानुवृत्त्यानुकृतिपरतया त्रासतो हासतो वा, देव ! प्राहुर्नमस्ते इति पदमपि ये केऽपि तेऽपि क्रमेण । स्वः कान्तोन्मुक्तमुक्तावलिललितकटाक्षच्छटालक्षलक्ष्या, मंक्षु स्युर्मोक्षलक्ष्मीकुचकलशतटीतारहारप्रकाराः॥ ७॥ स्फूर्जन्मोहप्ररोहच्छिदुरपरशुना सद्य उद्दामधाम्ना, नाम्नाऽऽम्नातेन यस्य त्रिजगति निखिलोपद्रवा विद्रवन्ति । नन्द्याद् वंदारवृन्दारकनिकरनमन् मस्तकस्तोमशस्तस्रस्तास्तोकप्रसूनस्तबकितचरणोपान्त पार्श्वः सुपार्श्वः॥ ८॥
( वसन्ततिलका-वृत्तम्)
Jain Education International
दृब्धं विमुग्धमतिना जिनवल्लभेन ये स्पष्टमष्टकमदः सुमदः पठन्ति । भूयोनुभूयभवसम्भवसम्पदं ते, मुक्तयङ्गनास्तनतटे सततं लुठन्ति ॥ ९ ॥
इति श्रीपार्श्वस्तोत्रम्
पार्श्वनाथ-स्तोत्रम्
For Private & Personal Use Only
www.jainelibrary.org