________________
૨૩૨
पार्श्वनाथ-स्तोत्रम
विवशवपुषं कामक्रोधाभिलाषमदभ्रमै मुखकुहरगं जन्मन्यापज्जरामृतिरक्षसाम्। परिगततर्नु दौर्भाग्येण द्रुतं परिरक्ष मां, जिनवर! भवत्पादद्वन्द्वं शरण्यमुपाश्रितम्॥ ३० ॥ न नृपपदवीं नार्थावाप्तिं न भोगसुखं न वा, सुरपतिपदं त्वां याचेऽहं न वा शिवसम्पदम्। अहनि निशि च स्वप्ने बोधे स्थिते चलिते वने, सदसि हृदये भक्त्यद्वैतं ममास्तु परं त्वयि॥ ३१॥ इति फणिफणारत्नस्फूर्जन्मयूखशिखामिषस्फुरितहृदयान्तःस्थज्ञानप्ररोह तथा कुरु। शिवपुरपदप्राप्तेः पन्था यथा जिनवल्लभो, भवति सततं त्वत्पादाब्जप्रणामरसोऽसमः॥ ३२॥
(शार्दूलविक्रीडितं छन्दः) । अज्ञानाद्भणिति स्थितेः प्रथमकाभ्यासात्कवित्वस्य यत्, किञ्चित्सम्भ्रमहर्षविस्मयवशाच्चायुक्तमुक्तं मया। तत्क्षन्तव्यमुदारनायकगुणांशाख्यानमेवात्र स - च्चेतोहारि-विचारिता कृतमिदं वान्यत्कवीनां पथः॥ ३३ ॥
इति श्रीपार्श्वस्तोत्रम्
कृतिः परमपूज्यानां श्रीजिनवल्लभसूरिसुगुरूणाम्
*
*
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org