SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि २३१ मा द्राक्षुरेव यदि केचिदुलूकगोत्राः, किं शुश्रुवुः श्रुतिसुधामपि तेन वाणीम्। सर्वाङ्गिसंशयभिदं यदमी त्वदुक्ते, मुक्तेः स्फुटेपि पथि संदिहते हताशाः॥ २४॥ (हरिणीवृत्तम्) दलितसकलापन्दिस्फीति कृताखिलसम्पदः, क्षणमपि विभो! यस्ते नामाक्षराणि जपेन्नरः। मुकुलनयना मीलत्पक्ष्मश्वसन्मुखकम्पिताधरदलजडस्विद्यद्गात्राः स्मरन्ति तमङ्गनाः॥ २५॥ विनमदमरश्रेणीचञ्चत्किरीटमणिप्रभानिचयरचितप्राज्यप्रेकच्छचीपतिकार्मुकम्। चरणनलिनं ये यौष्माकं स्मरन्ति कृतादरा, जिन! सुकृतिनां तेषां हस्तस्थिताः शिवसम्पदः॥ २६ ॥ दधति सफलं ते जन्मत्वं शशाङ्ककरद्युतिर्धमति भुवने तेषां कीर्तिस्त एव नतेः पदम्। किमथ बहुना तेषां सर्वं प्रसिद्ध्यति वाञ्छितं, वसति हृदये येषां शश्वद्भवच्चरणद्वयी ॥ २७॥ सुकुलविकलः क्रूरो भीरुः शठो निधनः खलुश्च्युतगुणलवो लोकद्वेष्यो जडः सरुजश्च यः। चरणयुगले त्वत्के नाथ! प्रसीदति सोऽपि ना, सुरपतिगणैरप्युद्गर्वैः सगौरवमीड्यते ॥ २८ ॥ कलुषमपहृदोषप्लोषिन्! कषायमृषाद्विषन्!, मुषितरुषितश्लिष्यद्दोषापकर्षविषौषधे!। हृषितवपुषां पुष्यत्तोषप्रकर्षयुषामृषे!, त्वमभिलषितान्येषां स्वामिन् ! पुषाण नुनूषताम् ॥ २५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy