________________
३७. पार्श्वनाथस्तोत्रम्
(शिखरिणी-छन्दः)
नमस्यद्गीर्वाणाधिपति-नृपति-स्तोम-विनमच्छि र :श्रेणिभ्रश्यत्कु सुमविसराभ्यर्चितपदम्। प्रणम्य श्रीपार्श्व कुवलयदलोत्पीलमह सं, स्तवं तस्यैवाहं किमपि करवै वीरितरुजः॥ १॥ यशो यौष्माकीणं भुवनवलयं भ्रान्यदनिशं, यदिन्द्रैः सर्वैरप्यखिलमिव गन्तुं न शकितम्। तदस्मादृक्कश्चिन्निविडजडिमा वक्ष्यति कुतो, यतो भ्राष्ट्र भक्तुं प्रभवति कदाचिन्न चणकः॥ २ ॥ तथापि स्त्वां स्तोतुं जिनवरपरायत्तहृदयो, भवद्भक्त्यावेशाज्जडमतिरपि प्रावृतमहम् । हहा! धिग्! मां यद्वा कृपणमविवेकं यत इह, त्वदीयानुध्यानाद्रुचितमखिलं सेत्स्यति मम॥ ३ ॥ गतोऽहं संसारे नर-नरक-तिर्यक् -सुरभवेष्वनेकेष्वेव श्रीजिनमलभमानः क्वचिदपि। इदानीं यौष्माकं चरणक मलं संश्रितवतो, द्विरेफस्येवाभून्मनसि परमा निर्वृतिरतः॥ ४॥ मयि स्वामिन्! सम्प्रत्यनवरतरोगार्त्तवपुषि, त्वदीयं पादाब्जं मनसि कृतवत्यादरवति । प्रसादं कुर्यास्त्वं दिशि दिशि लसत्कीर्त्तिकुसुम! प्रसन्नाः स्युः सन्तः प्रणमति यतः प्राणिनिवहे ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org