________________
३६. कल्याणक - स्तोत्रम्
वर्द्धितर्द्धिमहोदयम्।
पुरन्दरपुरस्पर्द्धि भूतलं तन्वतीमर्हत्पञ्चकल्याणिकीं स्तुमः ॥ १ ॥
सुस्वप्न सूचितं सद्यः, सुरेन्द्रादिष्टमिष्टकृत् । स्फुरन्निधानं भगव-गर्भाधानं धिनोतु नः ॥ २॥
संक्षुभ्यत्सर्वगीर्वाण सर्वर्द्धिकृतमज्जनम्। विश्वविश्वोद्यदुद्द्योतं, जन्म जैनं पुनातु नः ॥ ३॥ समस्तशस्तवस्तूनां, दानादानन्दितप्रजम् । स्फीतश्रि वीतविद्वेषि, व्रतपर्व स्तुवेऽर्हताम् ॥ ४॥
-
सम्भ्रान्तशक्रं सोत्कर्ष हर्षचङ्क्रमदामरम् । समुद्भूताद्भुतानन्दं, जैनं ज्ञानमहोऽवतात् ॥ ५॥
-
क्रदत्संक्रन्दनं सद्य, उद्यदुद्दामतामसम् । सम्भ्रान्तत्रैदशं दिश्या - दर्हदन्त्यदिनं शिवम् ॥ ६ ॥
एवं प्रमोदप्रोदञ्च-दुच्चरोमाञ्चकञ्चुकम् । त्रैलोक्यं किङ्करं कुर्वत्यव्यात् कल्यणिकावली ॥ ७ ॥
Jain Education International
इति यः पञ्चकल्याणीं, कल्याणी कुरुते हृदि । कल्याणालीं स शुद्धात्मा, जिनवल्लभते लघु ॥ ८ ॥
इति कल्याणकस्तोत्रम्
For Private & Personal Use Only
www.jainelibrary.org