________________
૨૨૨
सर्वजिनेश्वरस्तोत्रम्
कल्पद्रुकल्प! नतकल्पितवस्तुदाने, सम्प्रापितप्रवरसौख्यचय! स्तुवाने । वक्तुं विभो! गुणगणं तव नास्मि जाने, भक्त्या परं मम यतः स्वभवार्त्तिहाने॥ २१ ॥ व्याधिं धुनीहि जिन! रागलतां लुनीहि, चेतः पुनीहि मयि शीलगुणान् सिनीहि । आधिं मथान मनसोऽभिमतं ग्रथान, द्वेषं मुषाण जिनपादनतिं पुषाण ॥ २२॥
दूरीभवद् वृजिनवल्लभसिद्धिबद्धाबद्धा तव स्तवमवापि शुभं मया यत्। धर्मद्रुमोऽपि च तयो(?) फलमात्मनां [स्राक्], सस्तं स्वहस्तगतमस्तु जिनेश्वर! द्राक् ॥ २३ ॥
इति श्रीसर्वजिनेश्वरस्तवनं कृतिरियं श्रीजिनवल्लभसूरीणाम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org