________________
३४. सर्वजिनेश्वरस्तोत्रम्
[ वसन्ततिलकावृत्तम् ]
प्रीतिप्रसन्नमुखकौशिकनन्द्यमाना, दोषान्धकारनिकरं परितः किरन्तः । नालीकप्रक्रमघनाः कुमुदं दधानाः, प्रीणन्तु संतत ( ? ) सदा जिनचन्द्रपादः ॥ १॥ तान्यक्षराण्यपि न वेद्मि न ता गिरोऽपि मद्गोचरे न मम धीरपि तादृगस्ति । वाचस्पतिप्रभृतिवर्ण्यगुणं यतस्त्वं, संस्तौमि भक्तिविवशस्तदपीश ! वच्मि ॥ २ ॥ स्वामिन्नियच्चिरमिह - भ्रमता भवाब्धौ सञ्जातपातकचयेन कदाचनापि । न त्वं स्तुतो न च नुतो न विलोकितो न, ध्यातोऽन्यथा कथमियं विपदां ततिर्मे ॥ ३ ॥ दुर्वासनान्धतमसोच्चयचण्डभानो !, भस्मीकृतप्रसृतमोहलतावितान ! । रागज्वलज्ज्वलनसं शमनाम्बुवाहं, क्वाहं सभक्ति न वितास्मि गतास्मि तत्त्वाम्॥ ४॥ नाथ ! त्वदंघ्रि नमनादरताडितोर्वी- पीठोपजातकिणलक्ष्मललाटपट्टम् । वक्ष्यामि कर्हि जगदीश्वरदत्तसान्द्र - कस्तूरिकास्तबकपञ्चमिवास्मि हृष्टः ॥ ५॥ स्फीतोपनीतसुखमस्तसमस्ततापं यैस्तर्षतस्तव वचोऽमलहारहारि । प्रोद्यत्कपोलपुलकोपवितैः पयोवत्, पीतं श्रवोऽञ्जलिपुटैर्जिन ! तेऽत्र धन्याः ॥ ६॥ व्यासर्पिकेवलबलक्षतविश्वविश्व-मिथ्यात्वविप्लवचयेऽपि शतन्वयीश । यत्केऽपि कुग्रहविधूतधियस्तदेतन्नाश्चर्यमन्धदृश एव रवावलूकाः॥ ७॥ उद्भूतभक्तिभरबन्धुरकान्तिकाया, यं प्रातिहार्यविधिमादधिरे सुरेशा: । त्वं विश्वविस्मयकरं स्मरघस्मरस्य, स्मृत्वापि ते किमपि हर्षमहं वहामि ॥ ८ ॥ यस्तावकं चरणवारिरुहं न नन्ता, भावुक्तभाषितमलं मनसा न मन्ता । युष्मान्निदर्शितचरित्रविधौ निरन्ता, संसारनीरनिधिपारमसौ न गता ॥ ९॥
Jain Education International
,
>
For Private & Personal Use Only
www.jainelibrary.org