________________
जिनवल्लभसूरि-ग्रन्थावलि
२१९
निरीहं गन्तारं परमभुवि मन्तारमखिलं, निहन्तारं हेलाकलिकलहकेलीहसरसम्। भवन्त नन्तारो न हि खलु निमज्जन्ति भवभी
महापारावारे मरणभयकल्लोलकलिले॥ २८॥ एवं सेवापरहरिहयालोलचूलामणीद्धच्छायालीढं खरकिरणभाभिन्नमम्भोरुहं वा। चित्तागारे चरणकमलं ते चिरं धारिणो मे, सिद्धावासं बहुभवभयारम्भरीणाय देहि॥ २९॥
इत्थं ते समसंस्कृतस्तवमहं प्रस्तावयामासिवानाशंसे जिनवीर! नेन्द्रपदवीं न प्राज्यराज्यश्रियम्। लीलाभाञ्जि न वल्लभप्रणयिनी -वृन्दानि किं त्वर्थये, नाथेदं प्रथय प्रसादविशदां दृष्टिं दयालो! मयि ॥ ३० ॥
इति भावारिवारणस्तोत्रम्
१. प्रणयिनी इति चा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org