________________
२१८
इच्छामहासलिलकामगुणालवालं, चिन्तादलं समलचित्तमहीसमुत्थम् । सम्भोगफुल्लमिह मोहतरुं लसन्तं, हे वीरसिन्धुर ! समुद्धर मे समूलम्॥ २३॥
उल्लासितारतरलामलहारिहारा'नारीगणा बहुविलासरसालसा मे । संसारसंसरणसम्भवभीनिमित्तं,
चित्तं हरन्ति भण किं करवाणि देव ! ॥ २२ ॥
हे देव! किङ्करमिमं परिभावयेह, मज्जन्तमुद्धरजवे भवसिन्धुपूरे । उत्तारणाय कुरु वीर ! करावलम्बं, भूयोऽसमञ्जसनिरन्तरचारिणो मे ॥ २५ ॥
Jain Education International
श्रीमहावीरस्वामि-स्तोत्रम्
सम्पन्नसिद्धिपुरसङ्गममङ्गलाय, मायोरुवारिरुहिणीवरकुञ्जराय । वीराय ते चरमकेवलिपुङ्गवाय, कामं नमोऽसमदयादमसत्तमाय ॥ २४॥
कुसमयतरुमाला भङ्ग संहारवायो, कुनयकुवलयालीचूरणे मत्तनाय ! | तव गुणकणगुम्फे मे परीणाममित्थं, विमलमपरिहीणं हे महावीर ! पाहि ॥ २६ ॥
अनयनिविडे पीडागाढे भयावहदुःसहे, विरहविरसे लज्जापुञ्जे रमे भवपञ्जरे । निरयकुहरंगामी हाहं न सिद्धिमहापुरीसरलसरणिं सेवे मूढो गिरं तव वीर हे ! ॥ २७ ॥
१. हारा० इति का०
For Private & Personal Use Only
www.jainelibrary.org