________________
जिनवल्लभसूरि-ग्रन्थावलि
૨99
अञ्चामि ते चरणतामरसालिलीला, संधायि' पञ्चममहागणधारिवाणी। सम्बन्ध-बुद्धि-करुणालयलिङ्गसिद्ध
सङ्घावलीदमिगणं चरणं चरन्तम्॥ १६ ॥ उच्चण्डधारकरवालकरारिवारविच्छिन्नकुम्भगलनाल-करालनागे। कुन्तासितोमरविभिन्नपरासुदेहे, कङ्कालसङ्कलभयावहभूमिभागे॥ १७॥
सावेगहुङ्करणडामरमुण्डरुण्डकीलाललालसविहङ्गकुलावरुद्ध। आबद्धबाणविसरे सहसा नुवन्तो, वीरं नरा रणभरेऽरिबलं जयन्ति ॥ १८॥
युगलकम् आसन्नसिद्धिकमलापरिरम्भलम्भदम्भोलिपाणिमिव मोहगिरि किरन्तम्। सम्पत्तिकारणममङ्गलमूलकीलं, सेवन्ति के न भगवन्तमघं हरन्तम्॥ १९॥
आयासभङ्गडमरामयसम्परायचोरारिमारिविरहेण चिराय देव!। भूमण्डले सनगरानिगमा विहार
चारेण ते परममुद्धवमावहन्ति ॥ २० ॥ निस्संग! नि:समर! निःसम! निःसहाय!, नीराग! नीरमण! नीरस! नीरिरंस!। हे वीर! धीरिमनिवासनिरुद्धघोरसंसारचार! जय जीवसमूहबन्धो!॥ २१ ॥ १. संधारि० इति चा०
२. सम्बुद्ध० इति दा० का० ३. बुद्ध० इति अ० चा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org