________________
जिनवल्लभसूरि-ग्रन्थावलि
१४९
अत्रोत्सूत्रजनक्रमो न च न च स्नात्रं रजन्यां सदा,
साधूनां ममताश्रयो न च न च स्त्रीणां प्रवेशो निशि। जातिज्ञातिकदाग्रहो न च न च श्राद्धेषु ताम्बूलमि
त्याज्ञाऽत्रेयमनिश्रिते विधिकृते श्रीवीरचैत्यालये॥ ७५ ॥ ततश्च
विभ्राणेन मतिं जिनेषु बलवल्लग्नेन जैन क्रमे,
सत्सर्वज्ञमतेन पूतवचसा भद्रावलीमिच्छुना।। हित्वा चर्च्यपदावहेऽत्र वचने गहाँ प्रमादं दरं, रन्तव्यं विधिना सदा स्वहितदे मेधाविना सादरम्॥ ७६॥
'जिनवल्लभगणेर्वचनमिदं' नामाङ्कचक्रम् । त्रैलोक्यं पट्टिकेयं कुमतिरिह मषीलेखनीकाललीला
तत्स्वं(?) भा पञ्चसौधेन्द्रवरसकलशः सम्मृतिर्लेखशाला। लेखाचार्यः स्वकर्मेत्यशुभशुभफलं लिख्यते जन्तुशिष्यै
वित्तावन्नमस्यजननिनद इनः प्रोच्चरन् खं रुणद्ध ॥ ७७ ॥ चक्रे श्रीजिनवल्लभेन गणिना संविग्नगीतव्रति
ग्रामण्या सुकविप्रमोदसदनायेयं प्रशस्तिः किल। शाके वर्षगृणे वसुद्विदशके(१०२८)तां रामदेवः सुधीः, सुव्यक्तां जसदेवसूनुरुदकारीत् सूत्रधाराग्रणीः॥ ७८ ॥
प्रशस्तिर्जिनवल्लभीति। छ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org