SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि १४७ आः क्रूरः कामवैरी बत विषयकषायाः कृतारुच्यपाया, हा रौद्राः कापथौघा अहह सुविषमाः साधयो व्याधयोऽपि। ही भीमो मोहभिल्लः प्रविलसति हहा मृत्युरत्युग्ररूपः, संसारेऽतः श्रुतोक्त्या भवहरमुचितं धर्मकर्म प्रकुर्मः॥ ५९॥ श्रीमान् सोमिलकोत्थधर्कटवरोऽथो वर्द्धमानाङ्गभू वर्ण्यः स्वर्णवणिक्षु धार्मिकगणाग्र्यो वीरदेवः सुधीः। माणिक्याङ्गहश्च धर्कटवृषा श्रीपल्लिकायां पुरि प्रख्यातः सुमतिः प्रणष्टकुमतिः प्रद्युम्नवंशाग्रजः॥ ६० ॥ भिषग्वरः क्षेमसरीय-सर्वदेवाङ्गभूः रासल धन्धमध्यः। सद्धर्मधीींरक आद्यहेतुर्विशेषतश्चैत्यचतुष्कसिद्धेः॥ ६१॥ खण्डेल्लवंश्योऽग्रजमानदेवः, पाद्मप्रभिः प्रल्हक इत्युदात्तः। विचार्यबुद्धया जिनधर्मरत्नं, जग्राह यः कुग्रहनिग्रहीता ।। ६२ ।। श्रीपल्लिकाविश्रुतशालिभद्र-सूनुः समग्राम्यगुणाधिवासः। साधारणः साधुसधर्मचारिसमर्थसामर्थ्यतया यथार्थः॥ ६३ ॥ ईदृग्गुणाढ्यः खलु सढकोऽपि-श्रीपल्लिकेन्दोर्ऋषभस्य पुत्रः। यः प्राप्तुमिच्छुः पदमक्षरं स्वे, चैत्यालयेऽलेखयदक्षराणि ॥ ६४ ॥ ध्यात्वा विशेषत इमे समुदायमध्या"""म धर्मविधिबन्धुरवृद्धबोधाः। क्षेत्रप्रकीर्णविभवा विधिचैत्यवेश्मा[धी]शाज्ञया किल चिकारयिषां बभूवुः ।। ६५ ॥ यतः - क्षुद्राचीर्णकुबोधकुग्रहहते स्वं धार्मिकं तन्वति, द्विष्टानिष्टनिकृष्टधृष्टमनसि क्लिष्टे जने भूयसि। तादृग्लोकपरिग्रहेण निविडद्वेषोग्ररागग्रह. ग्रस्तैस्तद्गुरुसात्कृतेषु च जिनावासेषु भूम्नाधुना॥ ६६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy