SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १४६ चित्रकूटीय वीरचैत्य-प्रशस्तिः दिक्कान्ताकर्णपूरप्रणयपरिचितान्वर्णन..."सान्, प्रोद्दामानन्दमन्दं गुणिजनमनिशं कुर्वतः सर्वतोऽपि। यस्तस्य स्फूर्जदूर्जस्वलसकलगुणान्वक्तुमीहेत वाचा, __सर्वाकाशप्रदेशानपि विशकलितान् सोऽर्हति द्रष्टमक्ष्णा॥ ५१ ॥ लोकाय॑कूर्चपुरगच्छमहाघनोत्थ-मुक्ताफलोज्ज्वलजिनेश्वरसूरिशिष्यः। प्राप्तः प्रथां भुवि गणिर्जिनवल्लभोऽत्र, तस्योपसम्पदमवाप ततः श्रुतञ्च ॥५२॥ योग्यस्थानानवाप्तेः पृथुदवथुमिथोविप्रयोगाग्नितप्तेः, शश्वद्विश्वभ्रमार्तेरपि च तनुतरामात्ममूर्तिं दधत्यः। सत्यं यद्वक्त्रपङ्केरुहसदसि सहावासमासाद्य सद्यः विद्याः प्रीत्येव सर्वा युगपदुपचयं लेभिरे भूरिकालात्॥ ५३॥ कदाचित् विहरन् सोऽथ, चित्रकूटमुपाययौ। तत्रत्यसमुदायश्च तं सद्गुरुममन्यत ॥ ५४॥ अर्हच्छास्त्रनिशातशाणनशिलाशातीकृतप्रोल्लसत्, यद्वाक्सारकुठारदारितचिरोदग्रग्रहग्रन्थयः। उन्मीलद्विमलावबोधविकसत्सद्दर्शनास्तत्त्वत स्ते प्रायः समुदायिनो नवमिवार्हच्छासनं मेनिरे ॥ ५५ ॥ बिभ्युश्च भस्मकात्प्रास्थन्, प्रस्थितं तत्पथे जनम्। तदुक्तीस्तत्यजुर्जजुस्तद्दौष्ट्यं तुष्टवुर्गुरून् । ५६ ॥ तथ्यताथागताम्नायश्रुतिवर्धिष्णुसद्धियः। कर्हिचित्तेऽथ संविग्नाश्चित्ते चिरमचिन्तयन् ।। ५७ ॥ कान्ताकुञ्चितकुन्तलालिकुटिलः संसारवासोङ्गिनां, तद्विस्तीर्णनितम्बपालिविपुलं दु:खं मन:कायजम्। तद्व्याल[प्र!]विलोचनाञ्चलबलं लक्ष्म्यादि तद्विभ्रम भ्रान्तभ्रूयुगभ[ङ्गरं]गुरुपदं तन्मध्यतुच्छं सुखम् ॥ ५८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy