SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि यस्मिन्मोहवनप्लुषि स्मरपिषि ध्वस्तोग्ररागत्विषि, क्षीणद्वेषदवार्चिषि स्मयमुषि "ध्यान्ध्यं सतां जक्षुषि । दृष्टे पुण्यपुषि प्रशान्तवपुषि प्रत्तप्रशस्ताशिषि, १४५ द्रष्टुर्ध्यानजुषि क्षणात्क्षतरुषि प्रीतिर्बभौ चक्षुषि ॥ ४४ ॥ अनेकविधनायकस्तुतपदः सदोमाश्रयः, स्फुरद्वृषपरिग्रहस्तुहिनधामरम्याकृतिः । प्रभूतपतिरद्भुतश्रुतविभूतिरस्तस्मरो, महेश्वर इवोदभूदभयदेवसूरिस्ततः॥ ४५ ॥ हर्षोत्कर्षोरुपुष्यत्पुलककणमिषा यद्वचः शुश्रुवांसः, स्फीतान्तः[पुण्य?]पुञ्जोपचितमिव दलन्मोदकन्दोत्करञ्च । श्रद्धाम्बूत्सेकसुस्थं(?) परमशिवसुखप्राज्यबीजप्रभूतं, प्रोद्भूतं कूरपूरप्रथितमिव वपुर्बभ्रिरे भव्यसभ्याः ॥ ४६॥ दर्पासेवाविशेषान् दश नव निदानानि माना तथाष्टौ, भीतिः सप्तापभाषाः षडपि च विषयान्पञ्च संज्ञाश्चतस्रः । त्रीन् दण्डान् बन्धने द्वे प्रथमगुणभृदप्येकमज्ञानमित्थं, मिथ्यादृग्बन्धहेतून् व्यमुचदपरथा [ पञ्च ] पञ्चाशतं यः ॥ ४७ ॥ श्रीवीरान्वयवृद्धये गणभृता नानार्थरत्नैर्दधे, यः स्थानादिनवाङ्गशेवधिगणः कैरप्यनुद्घाटितः । तद्वंश्यः स्वगुरूपदेशविशदप्रज्ञः करिष्यत्शुभां, तट्टीकामुदजीघटत् तमखिलं श्रीसंघतोषाय यः ॥ ४८ ॥ सत्तर्कन्यायचर्चार्चितचतुरगिर : श्रीप्रसन्नेन्दुसूरिः, सूरिश्रीवर्द्धमानो यतिपतिहरिभद्रो मुनीड् देवभद्रः । इत्याद्याः सर्वविद्यार्णवकलशभुवः सञ्चरिष्णूरुकीर्तिः, स्तम्भायन्तेऽधुनाऽपि श्रुतचरणरमाराजिनो यस्य शिष्याः ॥ ४९ ॥ सद्गन्धे न च सद्रसे न च [ शुभ ] स्पर्शे न चेष्टे स्वरे, पादाते न च हास्तिके न च न वा श्वीये न च श्रीगृहे । साम्राज्ये न च वैभवे न च न च स्त्रैणे न चैन्द्रे पदे, यस्यात्मा सृजदागमस्थिरधियोऽन्यत्र व विद्वान्न च ॥ ५० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy