SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १४२ चित्रकूटीय वीरचैत्य-प्रशस्तिः स्वकायकान्त्या जितजातरूपः, पुरूरव:पार्थपृथुस्वरूपः। साम्राज्यमज्यानि ततोऽनुरूपः, समासदच्छ्रीनरवर्मभूपः॥ २१ ॥ यद् यात्रासु प्रसर्पद्बहलवरभ[टो]द्धृतधूलीविताने, रुन्धाने व्योम सद्यो मनसि घनघटाटोपमारोपयद्भिः। स्फूर्जत्पर्जन्यगर्जोर्जितजयपटहध्वानमाकर्ण्य नूनं, नेशे कुत्रापि देशे भयतरल[लस]न्मानसं राजहंसैः ।। २२ ।। प्रणयिजनकल्पवृक्षो हरिचन्दनकान्तिरमलसंतानः । मन्दारसुरतरुचितवपुरपि यो पारिजातोऽभूत् ॥ २३ ॥ सौम्यः पूर्णकलामयः कविगुरुर्भूनन्दनोऽत्यूजित___ स्फूर्जद्वीर्यशिखी विभाकरवपुर्भास्वत्सुतः सत्तमः। शत्रूणामनवग्रहप्रकृतिरप्याश्चर्यचर्याकरः, श्रीमानित्थमहो नवग्रहमयीमूर्तिर्बिभर्ति स्म यः॥ २४ ॥ धृतासिरेकोऽपि यदैव सोऽरीन्-द्विधा व्यधाद् यत्र रणाजिरे यान्। पञ्चत्वमप्याप्य तदैव चित्रं, त एव तत्र त्रिदशत्वमीयुः ।। २५ ।। तत्कालोन्मीलदन्तर्मदवशमुकुलं लोलनेत्रोत्पलानि, द्रागुद्यद्रागवेगोद्गतरतिजलतिम्यन्नितम्बाम्बराणि। सद्यः स्वेदोदवाहस्नपितजडतनूत्फुल्लसत्कम्पशीर्य नीवीबन्धानि जजुर्विजितरतिपतिं वीक्ष्य यं यौवतानि॥ २६॥ अपरितिमिताः कण्ठे हारावरोधविधानतः, समुदितशुचोऽलंकारार्हाः सदानविलासिनः। अवनिमवनिप्रापुर्यत्र द्विषः सुहृदोऽपि च, स्फुटकुपतिताः कान्तारागाश्रयाः परमश्रियम्॥ २७ ॥ सीत्काराः कण्टकार्त्या कुचकलशतटे साध्वसात्कम्पसम्पत्, त्रासायासप्रणाशान्निवसनकबरीस्रंसनास्तद्वदेव । रोमाञ्चः शीतवातैः प्रहणनमुरसः शश्वदस्तोकशोकात्, कान्तारेपीत्यभूवन् यदरिमृगदृशां केलिलीलाविलासाः॥ २८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy