________________
जिनवल्लभसूरि-ग्रन्थावलि
१४१
नित्यानन्ददशान्वितो नवशशिच्छायोऽष्टदिङ्नायकः,
सप्ताश्वप्रतिमोऽरिषट्कविजयी पञ्चाङ्गमन्त्रोद्यमी। चातुर्वर्ण्यविभुः शुभोदयफलाभिव्यक्तशक्तित्रयः,
श्रीमान्यः समिति द्विधा दधदरीनेकः क्षितीशोऽभवत्॥ १४॥ सर्वो[v] पतिगर्वखर्वणचणे दैवात्प्रतीपोल्बणे,
न्यग्भूते पर[सर्व]पार्थिवगणे मग्ना विपक्षार्णवे। येनैकेन महावराहवपुषा मालव्यभूरुद्धृता,
कृष्णेनेव ततः स सत्य उदयादित्योऽभवद् भूपतिः ॥ १५ ॥ अस्खलितसुललितगतिर्दानप्रसरप्रसादितजनालिः।
गुरुगिरि निबद्धरागः, स्फुटमभवदनेकपो भुवि यः॥ १६॥ नीलत्तालतमालपत्रविशदश्यामासिपत्रप्रभा
पुजैर्नीलपटावगुण्ठनमिव प्रावृत्य विष्वकृतैः। युद्धेषूद्धतवैरिवीरविसरं मुक्त्वानुरागग्रहा
वेशाद् द्रागभिसारिकेव विजयश्री: शिश्रिये यं स्वयम्॥ १७॥ यत्सैन्यैरेव लुण्ठत्तुरगखरखुराग्रक्षतक्षोणिपृष्ठ
प्रोत्सर्पत्पांशुपुञ्जस्थगितसुरपथे प्रस्थिते दिग्जयाय। यद्वीक्षा कौतुकिन्योऽनिमिषमृगदृशो विस्मयस्फारिताक्ष्यो,
__ व्योनि व्यासर्पि रेणूत्करकलिपिप्रियुश्च ॥ १८॥ बिभ्रज्जागरमादधद्विजयतां धैर्यं समुन्मूलयन्,
कुर्वन् गाढमनोज्वरं प्रतिकलं निघ्नन् विवेकोदयम्। तन्वानस्तनुकम्पसम्पदमलं लज्जां समुज्जासयत्,
यः स्त्रीणां द्विषतां च पर्णशयने तुल्यं स्थितिश्चेतसि ॥ १९॥ शस्त्रोद्भिन्नमहेभकुम्भविगलत्कीलालकुल्याशता,
स्रोतोवेगवहन्मृतोद्भटभटा श्रेणीशिरः संकटाः। चञ्चच्चञ्चलचञ्चु विचरत्... "कङ्करकोत्करा, - कीर्णाः काककुलाकुला रणभुवः प्रोचुर्यदुज्जृम्भितम्॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org