________________
जिनवल्लभसूरि-ग्रन्थावलि
१३५
का स्त्री ताम्यति कीदृशा स्वपतिना? विद्या सदा किंविधा? सिद्धयेद्भक्तिमतोऽथ लोकविदिता का कीदृगम्बा च का?। किम्भूतेन भवेद्धनेन धनवान् सांख्यैश्व पुंसेष्यते?, कीदृक्षा प्रकृतिर्वसन्तमरुतोत्कंठा भवेत् कीदृशा? ॥ १४० ॥
'मयाध्यासामासयुवाता' मंजरीसनाथजातिः। केष्टा विष्णोर्निगदति गदः प्राह सव्येतरोऽथ, श्रीरुद्राण्योः कथयत समाहारसम्बोधनं किम्? प्राहर्जुः किं जिगमिषुमिनं वक्ति कान्तानुरक्ता, सान्त्वं धूम्र प्रहरमपि सम्बोधयानुक्रमेण॥ १४१ ॥
'मयाध्यासामासयुवाता' विपरीतमंजरीसनाथजातिः। भण केन किं प्रचक्रे, नयेन भुवि कीदृशेन का नृपते? । काः पृच्छति तरलतरः, के यूयं किं कुरुत सततम्? ॥ १४२ ।।
' 'मयाध्यासामासयुवाता' गतागतः। लोके केन किलाऽऽपि कान्तकविता? कीदृग् प्रहावंशजा, श्रेणिः? श्रीसुरयाज्ञिकेन्द्रियजया बोध्याः समाहारतः। हे दुष्प्रव्रजितप्रदानक! कुतः का पात्रदात्रोर्भवेत्?, कीर्तिर्यस्य किलोत्तरं तमखिलं प्रश्रं सुरायै वद ॥ १४३ ।। 'कालिदासकविना, नाविकसदालिका, तामरसविदम, मदविसरमता,
सरकविदामविदलिका, नाम का' मन्थानान्तरजातिः। तमालव्यालमलिने, कः क्व प्रावृषि सम्भवी? आख्याति मूढः२ क्वारूलैर्निस्तीर्णस्तूर्णमर्णवः?॥ १४४ ।।
'तेपोनवजलवाहे' गतागतः। ध्वान्तं ब्रूतेऽर्हतां का? तृणमणिषु खगः कश्चिदाख्याति केन? प्रीतिर्मेऽथाह कर्म प्रसभकृतमहो दुर्बलः केन पुष्येत्?।
१. 'दधे' इति अ०
२. 'मूर्खः' इति अ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org