________________
१३६
प्रश्नोतरैकषष्टिशतकाव्यम्
कामध्रुग्वक्ति कात्र प्रजनयति शुनो युद्धहृत्पूर्वलक्ष्मी:?, सत्तासन्दिग्धबुद्धिः कथमथ कृतिभिः शश्वदाश्वासनीयः॥ १४५ ॥
तामस, समता, सारस, सरसा, साहस, सहसा, मारस,
सरमा, समरहर, तासासामास' पद्मान्तरजातिः । किमभिदधौ करभोरं, सततगतिं किल पतिः स्थिरीकर्तुम्। जननी पृच्छति विकचे, कस्मिन्सन्तुष्यते भ्रमरः? ॥ १४६ ॥
'मातरम्भोरुहे' द्विर्गतः। प्राधान्यं धान्यभेदे क्व? कथयति वयः कीदृशी वायुपत्नी?, नक्षत्रं वक्ति कुर्वे किमहमिनमिति प्राह शस्त्रोपजीवी?। ब्रूहि ब्रह्मस्वरं च क्षितकमभिगद प्रोल्लसल्लीलमंजूल्लपामामन्त्रय स्त्री, क्व सजति न जनः ग्राहकोप्यम्बुपक्षी? ॥ १४७॥ _ 'कलमे, मेलक, करता, तारक, कवसे, सेवक, कराव, वराक,
कलरवरामे, तासेवक' पद्मान्तरजातिः। कीदृक्ष लक्ष्मीपतिहृदयं? कीदृग्युगं रतिप्रीत्योः? । कः स्तूयतेऽत्र शैवैर्गुणवृद्धि वाऽज्झलौ कस्य? ॥ १४८ ॥
'स्युः' द्विर्गतजातिविशेषः। कुत्र प्रेम ममेति पृच्छति हरिः? श्रीराह कुर्यां प्रियं, किं प्रेम्णाहमहो गुणाः कुरुत किं यूयं गुणिन्याश्रये?। किं कुर्वेऽय॑महं? प्रगायति किमुद्गाताह सीरायुधः?, किं प्रेयः प्रणयास्पदं स्मरभवः पर्यन्वयुंक्तामयम्? ॥ १४९ ॥
'यायमानसारादहेम' मंजरीसनाथजातिः। विकरुण! भण केन किमाधेया?, का रज्यते च केन जनोऽयम्? कार्या च? का वाणिज्या? का धर्मे नेष्यते? कयाऽरंजि हरि? ॥ १५० ॥
'यायमानसारादहेम' विपरीतमंजरीसनाथजातिः।
१. 'न' इति मु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org