________________
जिनवल्लभसूरि-ग्रन्थावलि
१३१
मुदा श्रयति कं ब्रूते, वर्णः कोऽपि सदैव का? । ध्वान्तेऽन्ययाऽन्वितं वीक्ष्य, प्राहोमा किं हरं रुषा? ॥ ११४ ॥
'अन्धकारे' चतुर्गतः। भूमी कत्थ ठिया भणेइ गणिया? रनो पहुत्तं कहिं?, केली कत्थ करेसि किं हरिणहे दिवे ? कहिं तक्खणं?। आमंतेसु करेणुअं पभणए नक्खत्तलच्छी कहिं?, लोआ बिंति कयत्तणं? भण कहि मुद्धे धरेमो मणं ॥ ११५ ॥
'सेवेदेहतपावभवावासे' मञ्जरीसनाथजातिः। किं कुरुषे को जन्तो?, विष्णुः प्राह क्व कर्मविवशस्त्वम्? । का क्रियमाणा कीदृक्?, कुत्र भवेद्वक्ति करवाल:? ॥ ११६ ॥
'सेवेदेहतपावभवावासे' गतागतः। युगलकम्। कपटपटुदेवतार्चा, बुद्धिप्रभुतोद्भवो नरः स्मृत्वा । समवर्णवितीर्णोत्तर-मकष्टमाचष्ट कं प्रश्नम्?॥ ११७॥
'कंसमायंध्यायति जनः'। भृङ्गः प्राह नृपः क्व रज्यति बत स्थैर्यं न कस्मिन् जने?, युद्धं वक्ति दुरोदरव्यसनिता कुत्र? क्व भूम्ना गुणाः? । कस्मिन् वातविधूनिते तरलता ब्रूते सखी कापि मे?, क्वोद्गच्छत्यभि वल्लभं विलसतोऽसङ्कोचने लोचने? ॥ ११८॥
'अवलोकनकुतूहले' अष्टदलं विपरीतं कमलम्। कीदृक्षमन्तरिक्षं स्यान्नवग्रहविराजितम्। हनूमता दह्यमानं, लङ्कायाः कीदृशं वनम्? ॥ ११९ ॥
'गुरुशिखिविधुरविज्ञसितमन्दारागुरुचितम्' द्विः स्मस्तः । श्रुतिसुखगीतगतमनाः, श्रीसुतबन्धनवितर्कणैकरुचिः। प्रश्नं चकार यं किल, तदुत्तरं प्राप तत एवं ॥ १२० ॥
'काकलीभूयमनोहरते' समवर्णप्रश्नोत्तरजातिः।
१. 'चित्ते' इति वि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org