SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि १२७ कीदृक्षोऽहमिति ब्रवीति वरुण:? काप्याह देवाङ्गना, हं हो! लुब्धक को निहन्ति हरिणश्रेणी वनान्याश्रिताम्?। कान्तन्यस्तपदं स्तने रमयति स्त्री किं विधिर्वक्त्यदः, किं अन्नोन्नविरोहवारणकए जंपंति धम्मत्थिणो।। ८८ ॥ 'अवरोप्परंभेमच्छरोनखमो' भाषाचित्रकजातिः । खङ्ग श्रियोर्यमब्रवीत्, प्रश्रं मुनिः किल स्वकम्। उत्तरं प्राप तत्रैव', कामेसिसेविषायते ॥ ८९॥ शकमध्यस्थितसमवर्णप्रश्नोत्तरजातिः। कीदृग्भवेत् करजकर्तनकारि शस्त्रं,? क्वाकारि किं रहसि केलिकलौ भवान्या? । कश्चित्तरुः प्रवणयश्चरे पृथग् विबोध्यौ, किं वा मुनिर्वदति बुद्धभवस्वभावः? ॥ ९० ॥ _ 'नखलुभवेकोपिशमितोऽत्र' व्यस्तसमस्तजातिः। कुमुदैः श्रीमान् कश्चिद्गदपात्रं प्रश्नमाह यं भूमेः। तत्रैवोत्तरमलभत्, कैरवनिवहैरमामत्र ।। ९१ ।। श्लोकमध्यस्थितसमवर्णप्रश्नोत्तरजातिः। सदाहिताग्नेः क्व विभाव्यते का?, प्रावृष्युपास्ते शयितं क्व का कम्? । दीक्षणा वक्ति पुरः स्थिताप्यह-मवीक्ष्यमाणा प्रिय! किं करोमि कम्? ॥ ९२ ।। 'आयतनेत्रे तापयसि मां' व्यस्तसमस्तजातिः। लक्ष्मीर्वदति बलिजितं, त्वमीश! किं पीतमंशुकं कुरुषे? । अपरं पृच्छामि प्रिय!, किं कुर्वेऽहं भवच्चरणौ?॥ ९३ ॥ 'सेवसे' गतागतः। प्रवीरवरशूद्रकं किल जगुर्जनाः कीदृशं?, पयो वदति कीदृशीं नृपततिं श्रयन्त्यर्थिनः?। १. 'तत्रैव प्रापदुत्तरं' इति अ० वि० ३. 'बलजितं' इति अ० वि० २. 'प्रवयणश्च' इति अ० वि० ४. 'शू(सू)दकं' इति मु०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy