SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १२४ प्रश्नोतरैकषष्टिशतकाव्यम् पद्मस्तोमो वदति कपिसैन्येन भोः कीदृशा प्राक् ?, सिन्धौ सेतुर्व्यरचि ? रुचिरा का सतां वृत्तजाति: ? । को वा दिक्षु प्रसरति सदा कण्ठकाण्डात् पुरारै: ?, किं कुर्याः कं रह ' इति सखीं पृच्छतीं स्त्री किमाह? ॥ ६९ ॥ 'नालिन, नलिना, मालिनी, नीलिमा, नामानि इनं, आलि' मन्थानान्तरजातिः । पथि विषमे महति भरे हे धुर्या: किं स्म कुरुथ कां कस्य? | अत्यम्लतामुपगतं, किं वा के नाभिकाङ्क्षन्ति ? ॥ ७० ॥ > , 'दधिमधुरमनसः ' वाक्योत्तरजाति: । भानोः केष्येत पद्यैरुडु वदति पदं ? पप्रथे किं सहार्थे ?, कामो वक्ति व्यवायोऽपि च पदनिपुणैः पञ्चमी केन वाच्या? | सप्राणः प्राह पुंसि क्व सजति जनता ? भाषतेऽथार्द्रभावः, कुर्वेऽहं क्लेदनं किं ? क्व च न खलु मुखं राजति व्यङ्गितायाम् ? ॥ सत्यासक्तं च सेर्ष्याः किमथ मुररिपुं रुक्मिणीसख्य आख्यान् ? ॥ ७१ ॥ 'भामारतसानतेमनसि' शृङ्खलाजातिः, पञ्चपदं वृत्तम् । तरुणेषु कीदृशं स्यात्, किं कुर्वत् कीदृगक्षि तरलाक्ष्या : ? । सा जोव्वणं भयंती, मयणं केरिसं कुणइ ? ॥ ७२ ॥ 'उवलद्धबल' । सत्यक्षमार्त्तिहर आह जयद्रथाजौ पार्थ! त्वदीय रथवाजिषु का किमाधात् ? । अप्पोवमाइ किर मच्छरिणो मुणंति, किं ख्वमित्थ सुअणं भण केरि संति े? ॥ ७३ ॥ 'सच्छमतुच्छमच्छरसरिच्छम्'। कीदृक्षः कथयत दौषिकापणः स्यात् ?, ना केन व्यरचि च पट्टसूत्रराग: ? । क्षुद्रारिर्वदति किमुत्कटं जिगीषो : ?, किं जने शकरपुणेति वक्ति रङ्कः? ॥ ७४ ॥ 'शाटकी, कीटशा, कंटक, कटकं, शाकं, कीकट' मन्थानान्तरजातिः । २. 'संतु' इति वि० १. 'रत' इति वि० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy