SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि बभ्रुः प्रभूततुरगान् स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन् किमाह ? | छलेन पीत्वा दशनच्छदमुग्रमानां, भर्ता किमाह दयितां किमपि ब्रुवाणाम्? ॥ ५१ ॥ श्रीराख्यदहं प्रियमभि, किमकरवं? का च कस्य जनयित्री ? | अदिवारीशब्दो वा, कैस्त्यक्तः प्राह गृहदेशम् ? ॥ ५२ ॥ 'यैः' त्रिः समस्तः । 'अधरं तवाहमपिबंधवो न मे' द्विर्गतजातिः । कीदृक् सरः प्रसरदम्भसि भाति काले ?, भुक्त्यर्थतेह विहिता' कतमस्य धातो: ? । उत्कण्ठयेद् विरहिणं क इह प्रसर्पन्, ब्रूते शिफाध्वनिरथ श्रियमत्र कीदृक् ? ॥ ५३ ॥ वदति मुरजित् कुत्राता च प्रिया वरुणस्य का?, स च भणति यः क्रुद्धो नैव द्विषः परिरक्षति । दशमुखचमूः काकुत्स्थेन व्यधीयत कीदृशी ?, रवरवकवर्णाली कीदृग्ब्रवीति गतारति: ? ॥ ५४॥ १. 'विदिता' इति वि० ३. ' भूमिसु' इति वि० Jain Education International १२१ 'विशदपञ्चमः ' व्यस्तद्विः समस्तः । निःस्वः प्राह लसद्विवेककुलजैः सम्यग्विधीयेत को ?, मुग्धे ! स्निग्धदृशं प्रिये ! किमकरो : ? किं वातदोष्ठं व्यधाः ? | लोकैः कोऽत्र निगद्यते बलिवधूवैधव्यदीक्षागुरु : ?, कीदृग् भूमिशुभासशब्द े इह भो ! विश्रम्भवाची भवेत् ? ॥ ५५ ॥ 'अतनवमदशमः ' द्विर्व्यस्तसमस्तः । २. 'विरहिणी' इति मु० 'अपरावणा' वर्धमानाक्षरजातिः । For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy