SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभसूरि-ग्रन्थावलि ११९ शीघ्रं कैः पथि गम्यते ? ऽथ कमला ब्रूते मुहुर्वल्लभं, ध्यानावेशवशादलाभि पुरतः कैर्वैश्वरूपं मम? ॥ ३८॥ 'मयैः' चतु:समस्तः। गुरुरहमिह सर्वस्याग्रजन्मेति भट्ट, समदममदयिष्यन् कोपि कुप्यन् किमाह?। त्वमलदयपदं' वा आश्रयाभावमूर्छाकटकनगविशेषान् कीदृगामन्त्रयेत? ॥ ३९ ॥ 'आ विप्र वमाद्यत्वमदम्' द्विर्गतजातिः। कीदृग्मया सह रणे, दैत्यचमूरभवदिति हरिः प्राह?। लोको वदति किमर्थं ? का विदिता दशमुखादीनाम्? ॥ ४० ॥ क्षीणारिहयवाहनाज' गतागतजातिः। दृष्ट्वाग्रतः किल कमप्यवसादवन्तं, स्वामी पुर:स्थितनरं किमभाषतैकम्?। कश्चिद् ब्रवीत्यपि जिगीषुनृपा अकार्षीत्, किं कीदृशो वदत राजगणोऽत्र केषाम्? ।। ४१ ॥ 'अयं सीदति रे को नः' द्विर्गतजातिः। सीरी पाणिं क्व धत्ते? क्रतुरथमुदगात् स्यात् कया देहिनां भीबूंतेऽश्वः क्वारि विष्णुर्व्यधृत सविधगं हन्तुकामः किमाह?। शम्भुं घ्नन्तं गजं द्राक् सदय ऋषिरगात् किं तु काक्वा तथास्मिन्, हारं किं नापिधत्से? विरहिणि नभसीत्यूचुर्षी सा वदेत् किम्॥४२ ।। 'हलेवर्षत्यायस्तेम्भोदेहारस्तीतः' द्वादशपत्रमिदं पद्मम् । मधुरिपुणा निहते सति, दनुजविशेषे तदनुगताः किमगुः? । अभिदधते च विदग्धाः, सत्कवयः कीदृशीर्वाचः? ॥ ४३॥ . 'अमृतमधुराः' द्विर्गतजातिः। १. 'त्वमदलयपदं' इति वि० २. 'दृष्ट्वात्मनः' इति वि० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy