________________
११२
उद्यत्केलिकलाहितभ्रमरकादभ्रभ्रमावद्वपु
लेखास्तोत्पुलकक्रमत्क्रमरणन्मञ्जीरहूतस्मरम् । साक्षाद् भूतरसं प्रकर्षपदवीरूढानुरागं मिथ
स्तन्वङ्गयाः पुरुषायितं प्रविकृताशेषक्रियं पातु वः॥ ११९॥ वाचः काश्चिदधीत्य पूर्वसुधियां तत्काव्यदीक्षागुरुं,
वीक्ष्य श्रीभरतं च संज्ञरुचिरं श्रीकामतन्त्रं च तत् । साहित्याम्बुधिबिन्दुबिन्दुरपि सत्य [?] विधित्सुर्मना -
गभ्यासं जिनवल्लभोऽद्भदिमाः शृङ्गारसारा गिराः ॥ १२० ॥ भेदो विद्यत एव दाहकतया नाऽङ्गारशृङ्गारयो
रित्युक्तं न यदस्मदर्व्यचरणैः सार्वैस्तदेवाधुना । दाक्षिण्यात् किल नीरसेन रचितं किञ्चिन्मयाऽपीति यद्, बालस्येव सहन्तु मे सुकवयो वाचालताचापलम्॥ १२१ ॥
इति शृङ्गारशतकाव्यं समाप्तम्
Jain Education International
**
शृङ्गारशतकाव्यम्
For Private & Personal Use Only
www.jainelibrary.org