________________
११०
शृङ्गारशतकाव्यम्
न्यस्तं सारयुगं नु कामकितवेनोरस्तटाऽष्टापदे,
क्रीडायैरतिकन्यया नु निहितं यत्कन्दुकद्वन्द्वकम्। तज्जन्मद्वयसत्फलोदयनिभं कल्याणि ! कल्याणिनः,
कस्येदं कुचयुग्ममेष्यति तवाऽस्मिन्भोग्यतायोग्यताम्॥१०५॥ स्वच्छस्वच्छविचारिनाभिविततावतँ स्मितास्याम्बुजं,
लोलद्बाहुमृणालवल्लिविलसल्लोमावलीशैवलम्। रङ्गत्तुङ्गतरङ्गभङ्गरवलिस्मेराक्षिनीलोत्पलं,
किं गौराङ्गि ! तवाङ्गसुन्दरसरस्तष मनः कर्षति ॥ १०६॥ न प्रालेयजलानिलैर्न सरसैरम्भोरुहस्रस्तरै
स्तारैौक्तिकदामभिर्न विततैः सान्द्रैर्न चान्द्रैः करैः। न प्राज्यैर्घनसारसारकुमुदस्रक्चन्दनालेपनैः,
शक्योऽन्तलितः क्षणं शमयितुं चैतद्वियोगानलः॥ १०७॥ वक्त्रं गौराङ्गि! राकामृतकररुचिरं गाढसम्भोगयोग
व्यासक्तव्यक्तमुक्ताकणगणविशदस्वेदबिन्दु प्रगे ते। धत्तेऽवश्यायलेशस्तबकितविकचाम्भोजशोभामखण्डां,
यत्तत्तज्ज्ञा विहायाऽखिलकमलवनान्येतदाशिश्रिये श्रीः॥ १०८ ॥ प्रागुद्गम्य मुदा सबिन्दुमधरं प्रोद्वीक्ष्य जातक्रुधा,
हन्तुं तं चरणो रणन्मणितुलाकोटियोत्पाटितः । तं चाऽऽक्षिप्य हरिक्रमः क्रममनुष्ठाय दृढौष्ठग्रहं,
श्लिष्ट्वा मां सखि ! कर्तुमात्मरुचितं धूर्तः प्रवृत्तो हठात् ॥ १०९ ॥ अन्तःपृष्ठविनिष्टनिष्ठुरनखाभुग्नाङ्गुलीपादुका,
संयोगाजडितं नु मोहनरसश्लेषेण नु श्लेषितम् । प्रोद्यत्कण्टककीलितं नु मिथुनं स्यूतं नु कामेषुभि
ढालिङ्गनसङ्गिकेलिविरतौ धत्ते स्फुटं सम्पुटम् ॥ ११० ॥ कृत्वा रागवदुद्धतं रतमथो मीलदृशं निःसहां,
श्रोणीपार्श्वसमस्तहस्तवितताघातेप्यसंज्ञामिव । दृष्ट्वा मां सखि ! मूर्च्छिता किमुमृता सुप्ता नु भीताथवे
त्याकूता कुलधीरिव द्रुतमभूत् सोऽपि प्रियोऽस्मत्समः॥ १११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org