SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १०८ शृङ्गारशतकाव्यम ऋतुं सफलयाऽधुना हठकचग्रहाकर्षणात्, ___ कपोलतलदोलिनी: कुटिलकुन्तलालीलताः। उदस्य सहसैव चेदमृतयत्वमीप्सुस्तदा, सुधामधुरिमाऽधरं भ्रमर ! चुम्ब बिम्बाधरम् ।। ९१ ।। आस्ते कौलीयमार्गेऽर्गलमिव पुरतो वेत्रधारीव लज्जा, सत्यं सूक्ष्मेङ्गितज्ञः परहसनरतिय॑र्थवैरी च लोकः। दूरे गाढाङ्गसङ्गः स्वरुचि सखि दृशाऽपीक्षितुं न क्षमा तं, यातः सन्तापतप्ते हृदि मदनरसो मे सदा शोषमेव ॥ ९२॥ सख्यो मानधना मनः पुनरिदं कान्तैकतानं सदा, सद्भावच्युतमस्य च व्यवहृतं दाक्षिण्यतोऽस्मास्विति। क्रूरात्मा विषमायुधः स्फुटमयं कामोऽपि वामोऽपि य __जाता दुःखमहाखनिः किमपरं पापाऽहमेका भुवि ॥ ९३ ॥ प्रत्यक्षं किलं तर्ककर्कशधियः प्राहुः प्रमाणं बुधाः, तन्मिथ्या हृदि वाचि चक्षुषि गतां तां संविदेऽहं सदा। सन्तोषापगमे तु यस्तदविनाभावो मया निश्चितो, धूमाग्न्योरिव सर्वथा न सघटाकोटि समाटीकते ॥ ९४ ॥ प्रियोऽर्द्धमुकुलेक्षणः सुरतसङ्गरे सुभ्रुवो, ददंश दशनच्छदं हठकचग्रहोत्तानितम्। अथो धुत्करत(?) कणत्वलयमांसलं सीत्कृतं, सशुष्करुदित व्यधान् मदनहुंकृतं च प्रिया॥ ९५ ।। कान्ता कोपकषायिताऽपि हि मया संसाधितासादर-, "युद्धधमऽवाङ्मुखेन शिरसा सद्यः प्रसाद्याऽऽदरात् । प्रादुःषत् कुचकुम्भलोभितदृशा स्वौष्ठव्रणाशङ्किना, चादञ्चितकञ्चकस्थगितदृक् संश्रुिष्य सा चुम्बिता ।। ९६ ।। क्षीरनीरधिकल्लोललोललोचनया नया। क्षालयित्वेव मे सद्यः, स्थैर्य धैर्यं च नीयते ॥ ९७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002681
Book TitleJinvallabhsuri Granthavali
Original Sutra AuthorVinaysagar
Author
PublisherPrakrit Bharti Academy
Publication Year2004
Total Pages398
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy